SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ नित्यानि त्यभिलामिलात्मा दुखोत्पादस्तथा च संक्तशः । एष वधो जिनभणितो वर्यजितव्यः प्रयत्नेन ॥१३॥" तथा-अनित्ये चापराहिंसनेनेति ॥५६॥ (११४ ) 'अनित्ये च ' सर्वथा प्रतिक्षणभङ्गुरे पुनरात्मनि अभ्युपगम्यमाने सति अपरेण-केनचित् लुब्धकादिना अहिंसनेन-अव्यापादनेन कस्यचिच्छूकरादेहिसाऽसंभवः, प्रतिक्षणं भङ्गुरत्वाभ्युपगमे हि सर्वेष्वात्ममुस्वत एव स्वजन्मलाभक्षणानन्तरं सर्वथा निवर्तमानेषु कः कस्य हिंसकः? को वा कस्य हिंसनीयः? इति ॥५६॥ तथा-भिन्न एव देहान्न स्पृष्टवेदनमिति ॥ ५७॥ (११५) यदि हि भिन्न एव' विलक्षण एव सर्वथा देहादात्मा तदा 'न' नैव स्पृष्टस्य-योपिच्छरीरशयनासनादेः कण्टकज्वलनज्वालादेश्च इष्टानिष्टरुपस्य स्पर्शनेन्द्रियविषयस्य देहेन स्पृश्यमानस्य वेदनम्-अनुभवनं प्रामोति भोगिनः पुरुषस्य, न हि देवदत्ते शयनादीनि भोगाङ्गानि स्पृशति विष्णुमित्रस्यानुभवप्रतीतिरस्तीति ॥ ५७ ॥ तथा-निरर्थकश्चानुग्रह इति ॥५८॥ (११६) 'निरर्थकः' पुरुषसंतोषलक्षणफलविकला, चः समुच्चये, अनुग्रहः-स्रक्चन्दनाङ्गनावसनादिभिर्भोगाङ्गरुपष्टम्भो भवेद्देहस्य, देहादात्मनोऽत्यन्त भिन्नत्वात् , निग्रहस्याप्युपलक्षणमेतत् ॥५८॥ एवं भेदपक्षं निराकृत्याभेदपक्षनिराकरणायाह ___ अभिन्न एवामरणं वैकल्यायोगादिति ॥ ५९॥ (११७) 'अभिन्न एव' देहात् सर्वथा नानात्वमनालम्बमाने आत्मनि सति 'चैतन्यविशिष्टः कायः पुरुष' इति मतावलम्बिना ॥२॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy