SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ कालयोश्च निश्चयनयाभिप्रायेणाभेदादेवमुपन्यस्तं, अन्यथा वर्त्तमानताकल्पं क्रियमाणत्वमित्युपन्यसितुं युक्तं स्यात् ॥ ५२ ॥ यादृशि चात्मनि प्रागुपन्यस्ता बन्धहेतवः उपपद्यन्ते तमन्वयव्यतिरेकाभ्यामाह - परिणामिन्यात्मनि हिंसादयो, भिन्नाभिन्ने च देहादिति ॥ ६८ ॥ ( १११ ) परिणमनं परिणामः - द्रव्यरूपतयाऽवस्थितस्यैव वस्तुनः पर्यायान्तरप्रतिपत्तिः, यथोक्तम् - " परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥ ९२ ॥ " परिणामो नित्यमस्यास्तीति परिणामी तत्र आत्मनि - जीवे हिंसादयः - प्राग् निरूपिता उपपद्यन्ते, तथा भिन्ने पृथगुरूपे अभिन्ने च तद्विपरीते, चकारो विशेषणसमुच्चये, कस्मादित्याह-' देहात् ' शरीरात् ॥ ५३ ॥ अत्रैवार्थे विपक्षे बाघामाह अन्यथा तदयोग इति ॥ ५४ ॥ ( ११२ ) यदि हि परिणामी आत्मा भिन्नाभिन्नव देहान्नेष्यते तदा तेषां हिंसादीनां बन्धहेतुतयोपन्यस्तानामयोगः - अ टना ॥ ५४ ॥ कथमित्याह - नित्य एवाविकारतोsसंभवादिति ॥ ५५ ॥ ( ११३ ) 'नित्य एव ' अमच्युतानुत्पन्नस्थिरैकस्वभावे आत्मनि, न तु पर्यायनयावलम्बनेनानित्यरूपेऽपीत्येवकारार्थः, अभ्युपगम्यमाने द्रव्यास्तिकनयावष्टम्भतः 'अविकारतः ' तिलतुपत्रिभागमात्रमपि पूर्वस्वरूपादप्रच्यवमानत्वेन 'असंभवाद्' अघटनात् हिंसायाः, यतो विवक्षित हिंसा विवक्षितपर्यायविनाशिस्वभावा शास्त्रेषु गीयते, ययोक्तम् - " तत्पयार्यविनाशो
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy