SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ - 'विभवोचितं' स्वविभवानुसारेण 'विधिना' अनन्तरमेव निर्देक्ष्यमाणेन क्षेत्रेभ्यो-निर्देक्ष्यमाणेभ्य एव दानम्अन्नपानौषधवस्त्रपात्राधुचितवस्तुवितरणम् ॥६८॥ विधि क्षेत्रं च स्वयमेव निर्दिशन्नाह सत्कारादिविधिनिःसङ्गता चेति ॥ ६९ ॥ (२०२) सत्करणं सत्कार:-अभ्युत्थानासनप्रदानवन्दनरूपो विनयः स आदिर्यस्य देशकालाराधनविशुद्धश्रद्धाविष्करणदानक्रमानुक्रमादेः कुशलानुष्ठान विशेषस्य स तथा, किमित्याह-विधिर्वर्त्तते, निःसङ्गता'ऐहिकपारलौकिकफलाभिलाषविकलतया सकलक्लेशलेशाकलङ्कितमुक्तिमात्राभिसन्धिता, चकारः समुच्चये ॥ ६९ ॥ वीतरागधर्मसाधवः क्षेत्रमिति ॥ ७० ॥ (२०३) वीतरागस्य-जिनस्य धर्म:-उक्तनिरुक्तः तत्प्रधानाः साधवो वीतरागधर्मसाधवः क्षेत्रं-दानाई पात्रमिति, तस्य च विशेषलक्षणमिदम्-"क्षान्तो दान्तो मुक्तो जितेन्द्रियः सत्यवागभयदाता । प्रोक्तास्त्रदण्डविरतो विधिग्रहीता भवति पात्रम् ॥ १२७॥"७०॥ तथा-दुःखितेष्वनुकम्पा यथाशक्ति द्रव्यतो भावतश्चेति ॥ ७१॥ (२०४) 'दुःखितेषु' भवान्तरोपात्तपापपाकोपहितातितीव्रक्लेशावेशेषु देहिष्वनुकम्पा-कृपा कार्या 'यथाशक्ति' स्वसामर्थ्यानुरूपं, द्रव्यत:-तथाविधग्रासादेः सकाशात् , भावतो-भीषणभवभ्रमणवैराग्यसंपादनादिरूपात् , चः समुच्चये, दु:खितानुकम्पा हि तदुपकारत्वेन धर्मैकहेतुः, यथोक्तम्-" अन्योपकारकरणं धर्माय महीयसे च भवतीति । अधिगतपरमार्थानामविवादो वादि
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy