SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ धर्म बिन्दु श्राद्ध श्रावक सामान्य ध्यिा चर्या यः तथा-द्रव्ये संतोषपर (प्रधान) तेति ॥६५॥ (१९८) 'द्रव्ये' धनधान्यादौ विषये 'संतोषप्रधानता' परिमितेनैव निर्वाहमात्रहेतुना द्रव्येण संतोषवता धार्मिकेणैव भवि- तव्यमित्यर्थः, असंतोषस्यासुखहेतुत्वात् , यदुच्यते-"अत्युष्णात् सघृतादनादच्छिद्रात्सितवाससः। अपरप्रेष्यभावाच्च, शेषमिच्छन् पतत्यधः ॥ १२४ ॥” इति, तथा “संतोषामृततृप्तानां, यत्सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानामितश्चेतश्च मिच्छन् पत्याखाहत्वात् याच्यते अत्युष्णात सतादनादा धावताम् ॥ १२५ ॥"॥६५॥ तथा-धर्मे धनबुद्धिरिति ॥६६॥ (१९९) 'धर्म' श्रुतचारित्रात्मके सकलाभिलषिताविकलसिद्धिमूले 'धनबुद्धिः' मतिमतां धर्म एव धनमिति परिणामरूपा | निरन्तरं निवेशनीयेति ॥१६॥ तथा-शासनोन्नतिकरणमिति ॥ ६७॥ (२००) शासनस्य-निखिलहेयोपादेयभावाविर्भावनभास्करकल्पस्य जिननिरूपितवचनरूपस्य उन्नतिः-उच्चैर्भावस्तस्याः करणं सम्यग्न्यायव्यवहरण १ यथोचितजनविनयकरण २ दीनानाथाभ्युद्धरण ३ सुविहितयतिपुरस्करण ४ परिशुद्धशीलपालन ५ जिनभवनविधापन ६ यात्रास्नात्रादिनानाविधोत्सवसंपादना ७ दिभिरुपायैः, तस्यातिमहागुणत्वादिति, पठ्यते च" कर्त्तव्या चोन्नतिः सत्यां, शक्ताविह नियोगतः। अवन्ध्यं कारणं ह्येषा, तीर्थकुनामकर्मणः ॥१२६॥ (ह० अष्टके ) ॥१७॥ तथा-विभवोचितं विधिना क्षेत्रदानमिति ॥ ६८॥ (२०१) ॥४९॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy