SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ तथा-निर्णयावधारणमिति ॥६०॥ (१९३) निर्णयस्य-निश्चयकारिणो वचनस्य गुरुणा निरूपितस्य 'अवधारणं' दत्तावधानतया ग्रहणम्, भणितं चान्यत्रापि"सम्म वियारियव्वं अट्ठपयं भावणापहाणेणं । विसए य ठावियत्वं बहुसुयगुरुणो सयासाओ॥१२३" (पञ्च ८६५) [सम्यग् विचारयितव्यमर्थ पदं भावनाप्रधानेन । विषये च स्थापयितव्यं बहुश्रुतगुरोः सकाशात् ॥१॥] ॥६॥ तथा-ग्लानादिकार्याभियोग इति ॥ ६१॥ (१९४) ग्लानादीनां-ग्लानबालवृद्धागग्रहणोद्यतमाघूर्णकादिलक्षणानां साधुसाधर्मिकाणां यानि कार्याणि-प्रतिजागरणोपधान्नपानवस्त्रमदानपुस्तकादिसमर्पणोपाश्रयनिरूपणादिलक्षणानि तेष्वभियोगो-दत्तावधानता विधेयेति ॥ ६१॥ तथा-कृताकृतप्रत्युपेक्षेति ॥ ६२॥ (१९५) । कृतानां अकृतानां च चैत्यकार्याणां ग्लानादिकार्याणां च प्रत्युपेक्षा-निपुणाभोगविलोचनव्यापारेण गवेषणं, तत्र कृतेषु करणाभावादकृतकरणायोद्यमो विधेयः, अन्यथा निष्फलशक्तिक्षयप्रसंगादिति ॥ ६२॥ ततश्च-उचितवेलयाऽऽगमन मिति ॥ ६३॥ (१९६) उचितवेलया-हट्टव्यवहारराजसेवादिप्रस्तावलक्षणया 'आगमनं' चैत्यभवनाद् गुरुसमीपादा गृहादाविति ॥३॥ ततो-धर्मप्रधानो व्यवहार इति ॥ ६४॥ (१९७) 'कुलक्रमागत'मित्यादिसूत्रोक्तानुष्ठानरूपो व्यवहारः कार्यः॥ ६४ ॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy