SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ROOPER | तदनु 'तद्विरागात् ' तप्तलोहपदन्यासोद्विजनन्यायेन भवस्वरूपोद्वेगात् , चकारी हेत्वन्तरसमुच्चये, 'तत्त्वतः' निर्व्याज- | वृत्या, तथा 'अपवर्गानुरागात्' परमपदस्पृहातिरेकात , चशब्दः प्राग्वत् , स्याद्-भवेदेतद्-यतित्व, 'नान्यथा' नान्यप्रकारेण 'कचित् । क्षेत्रे काले वा, सम्यगुपायमन्तरेणोपेयस्य कदाचिदभावादिति ॥३॥ इत्युक्तो यतिः,अधुनाऽस्य धर्ममनुवर्णयिष्यामः,यतिधर्मो द्विविधा-सापेक्षयतिधर्मों निरपेक्षयतिधर्मश्चेति ॥२७०) प्रतीतार्थमेव, परं गुरुगच्छादिसाहाय्यमपेक्षमाणो यः प्रव्रज्यां प्रतिपालयति स सापेक्षः, इतरस्तु निरपेक्षो यतिः, तयोर्धर्मोऽनुक्रमेण गच्छवासलक्षणो जिनकल्पादिलक्षणश्रेति ॥१॥ तत्र सापेक्षयतिधर्म इति ॥२॥ (२७१) 'तत्र' तयोः सापेक्षनिरपेक्षयतिधर्मयोर्मध्यात् सापेक्षयतिधर्मोऽयं भण्यते ॥२॥ यथा-गुर्वन्तेवासितेति ॥३॥ (२७२) गुरोः-प्रव्राजकाचार्यस्य ' अन्तेवासिता' शिष्यभावः यावज्जीवमनुष्ठेया, तच्छिष्यभावस्य महाफलत्वात् , पठ्यते च-"नाणस्स होइ भागी थिरयरओ दसणे चरित्ते य । धण्णा आवकहाए गुरुकुलवासं न मुञ्चन्ति ॥ १५४॥” (वि. आव० ३४५९) [ज्ञानस्य भवति भाजनं स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥१॥] तथा-तद्भक्तिबहुमानाविति ॥४॥ (२७३) तस्मिन्-गुरौ भक्तिः-समुचितानपानादिनिवेदनपादप्रक्षालनादिरूपा बहुमानश्च-भावप्रतिबन्धः॥५॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy