________________
धर्मबिन्दु सापेक्षयति धर्मः
अ. ५
॥६५॥
**0-100
अस्थाने-भाषितोपयोगायोग्यत्वेनाप्रस्तावे अभाषणं- कस्यचित्कार्यस्याभणनं, एवमेव साधोर्भाषासमितत्वशुद्धिः स्यादिति । तथा - स्खलितप्रतिपत्तिरिति ॥ २१ ॥ ( २९० )
कुतोऽपि तथाविधप्रमाददोषात् स्खलितस्य किञ्चिन्मूलगुणादावाचारविशेषे स्खलनस्य - विराधनालक्षणस्य जातस्य प्रतिपत्तिः - स्वतः परेण वा प्रेरितस्य सतोऽभ्युपगमः - तथोदितप्रायश्चित्ताङ्गीकारेण कार्यः, स्खलितकाले दोषाद् अनन्तगुणत्वेन दारुणपरिणामत्वात्तदप्रतिपत्तेः, अत एवोक्तम्- "उप्पण्णा उप्पण्णा माया अणुमग्गओ निहंतवा । आलो अण निंदणगरहणाहि न पुणो विधीयंति ( यबीयंति ) ॥ १६८ ॥ अणागारं परं कम्मं, नेव गूहे न निण्हवे । सुई सया वियडभावे, असंसत्ते जिईदिए ॥ १६९ ॥ ” [ उत्पन्नोत्पन्ना मायाऽनुमार्गतो निहन्तव्या । आलोचननिन्दनगर्हणाभिः न पुनश्च द्वितीयं ( वारं ) ॥ १ ॥ अनाकारं ( मायामयं ) परं कर्म नैव गृहेत न निन्दुवीत । शुचिः सदा विकटभावः असंसक्तो जितेन्द्रियः ॥२॥ ] २१ ॥ तथा - पारुष्यपरित्याग इति ॥ २२ ॥ ( २९१ )
पारुष्यस्य - तीव्रकोपकषायोदय विशेषात्परुषभावलक्षणस्य तथाविधभाषणादेः स्वपक्षपरपक्षाभ्यामसंबन्धयोग्यताहेतोः परित्यागः कार्यः, अपारुष्यरूप विश्वासमूलत्वात्सर्वसिद्धीनाम्, यदुच्यते- “ सिद्धेर्विश्वासिता मूलं यद्यूयपतयो गजाः । सिंहो मृगाधिपत्येऽपि न मृगैरनुम्यते ॥ १७० ॥ " ॥ २२ ॥
तथा - सर्वत्रापिशुनतेति ॥ २३ ॥ (२९२ )
'सर्वत्र' स्वपक्षे परपक्षे च परोक्षं दोषाणामनाविष्करणं, परदोषग्राहितायां हि आत्मैव दोषवान् कृतः स्यात्, '
पठ्यते
साधुक्रि
या
॥६५॥