________________
५-६ पञ्चा० ३०८-९-१०) [धर्मार्थमुद्यतेन सर्वस्याप्रीतिकं न कर्तव्यम् । संयमोऽप्येवमेव श्रेयः अत्र च भगवानुदाहरणम् ॥२॥ स तापसाश्रमात् तेषामप्रीतिकं ज्ञात्वा। परममबोधिबीजं ततो गतो हन्ताकालेऽपि ॥२॥ इति सर्वेणापि सम्यक् शक्यमप्रीतिक सदा जनस्य । नियमात् परिहर्तव्यं इतरस्मिन् स्वतत्त्वचिन्तैव ॥३॥] इतरस्मिन्-अशक्यप्रतीकारेऽप्रीतिके स्वतत्त्वस्य-स्वापराधरूपस्य चिन्ता कार्या, यथा-" ममैवायं दोषो यदपरभवे नार्जितमहो, शुभं यस्माल्लोको भवति मयि कुमीतिहृदयः। अपापस्यैवं मे कथमपरथा मत्सरमयं, जनो याति स्वार्थ प्रति विमुखतामेत्य सहसा ? ॥१६६॥ १७॥ एतदेवाह
भावतः प्रयत्न इति ॥ १८॥ (२८७) 'भावतः' चित्तपरिणामलक्षणात् 'प्रयत्नः' परोद्वेगाहेतुतायामुद्यमः कार्य इति, अयमत्र भावः-यदि कथञ्चित्तथाविधप्रघट्टकवैषम्यात्कायतो वचनतो वा न परोद्वेगहेतुभावः परिहर्नु पार्यते तदा भावतो-रुचिलक्षणात् परोद्वेगं परिहत्तुं यत्नः कार्यः, भावस्यैव फलं प्रति अवन्ध्यहेतुत्वात् , उक्तं च-"अभिसन्धेः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽतः स एवेह, वारीव कृषिकर्मणि ॥१६७॥"१८॥
तथा-अशक्ये बहिश्चार इति ॥ १९॥ (२८८) अशक्ये-कुतोऽपि वैगुप्यात्समाचरितुमपार्यमाणे तपोविशेषादौ क्वचिदनुष्ठाने 'बहिश्चोरो' बहिर्भावलक्षणः तस्माकार्यः, अशक्यं नारब्धव्यमित्यर्थः, अशक्यारम्भस्य क्लेशैकफलत्वेन साध्यसिद्धेरनङ्गत्वात् ॥ १९ ॥
तथा-अस्थानाभाषणमिति ॥ २०॥ (२८९)