________________
| च-" लोओ परस्स दोसे हत्थाहत्यिं गुणे य गिण्हंतो। अप्पाणमप्पणच्चिय कुणइ सदोसं च सगुणं च ॥१७॥" [लोका | परस्य दोषान् हस्ताहस्ति गुणांश्च गृह्णन् । आत्मानमात्मनैव करोति सदोषं च सगुणं च ॥१॥] २३॥
तथा-विकथावर्जनमिति ॥२४॥ (२९३) विकथानां-स्त्रीभक्तदेशराजगोचराणां स्वभावत एवाकुशलाशयसमुन्मीलननिबन्धनानां वर्जनं, एतत्कयाकरणे कृष्णनीलाधुपाधिरिव स्फटिकमणिरात्मा कथ्यमानस्त्रयादिचेष्टानामनुरूपतां प्रतिपद्यते ॥ २४ ॥
तथा-उपयोगप्रधानतेति ॥२५॥ (२९४) उपयोगः प्रधानः-पुरस्सरः सर्वकार्येषु यस्य स तथा तस्य भावस्तत्ता सा विधेया, निरुपयोगानुष्ठानस्य द्रव्यानुष्ठानत्वात् , 'अनुपयोगो द्रव्य" मिति वचनात् ॥२५॥
तथा-निश्चितहितोक्तिरिति ॥२६॥ (२९५) निश्चितस्य-संशयविपर्ययानध्यवसायबाघदोषपरिहारेण निर्णीतस्य हितस्य च-परिणामसुन्दरस्योक्तिः-भाषणम्, अत एव पठ्यते-" कुदृष्टं कुश्रुतं चैव, कुज्ञातं कुपरीक्षितम् । कुभावजनक सन्तो, भाषन्ते न कदाचन ॥ १७२॥"२६ ॥
तथा-प्रतिपन्नानुपेक्षेति ॥ २७॥ (२९६) प्रतिपन्नस्य-अभ्युपगतस्य गुरुविनयस्वाध्यायादेः साधुसमाचारविशेषस्यानुपेक्षा-अनवधारणा, अवधीरितो हि समाचारो जन्मातरेऽपि दुर्लभः स्यात् ॥ २७॥