________________
XO
श्रीसर्वज्ञाय नमः। श्रीमुनिचन्द्रसूरिविरचितटीकयाऽलङ्कृतं श्रीमद्धरिभद्रसूरिविरचितं
धर्मबिन्दुप्रकरणम् ।
प्रथमोऽध्यायः। शुद्धन्यायवशायत्तीभूतसद्भूतसंपदे । पदे परे स्थितायास्तु, श्रीजिनप्रभवे नमः॥१॥ जयन्तु ते पूर्वमुनीशमेघा, यैर्विश्वमाश्चेव हतोपतापम् । चक्रे बृहद्वाङमयसिन्धुपानप्रपन्नतुङ्गातिगभीररूपैः॥२॥ यन्नामानुस्मृतिमयमयं सज्जनश्चित्तचक्षुः| क्षेपादिव्याञ्जनमनुसरल्लब्धशुद्धावलोकः । सद्यः पश्यत्यमलमतिहृन्मेदिनीमध्यमग्नं, गम्भीरार्थ प्रवचननिधि भारती तां स्तवीमि ॥ ३ ॥ विदधामि धर्मबिन्दोरतिविरलीभूतगर्भपदबिन्दोः। भव्यजनोपकृतिकृते यथावबोधं विवृतिमेनाम् ॥४॥
प्रणम्य परमात्मानं, समुद्धृत्य श्रुतार्णवात् । धर्मविन्दुं प्रवक्ष्यामि, तोयबिन्दुमिवोधेः॥१॥
'प्रणम्ये ति प्रणम्य-प्रकर्षेण नत्वा बन्दनस्तवनानुचिन्तनादिप्रशस्तकायवाङ्मनोव्यापारगोचरभावमुपनीय, कमित्याह'परमात्मानं ' अतति-सततमेव अपरापरपर्यायान् गच्छतीति आत्मा-जीवः, स च द्विधा-परमोऽपरमश्च, तत्र परमो यः