SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ धर्मबन्दु सापेक्षयति धर्मः अ. ५ ॥६९॥ 佘祥合语态 泰语 泰语 泰语 六年 六合拳 太 तथा - परकृतबिलवास इति ॥ ५३ ॥ (३२२ ) परैः - आत्मव्यतिरिक्तैः कृते - स्वार्थमेव निष्पादिते बिल इव बिले असंस्करणीयतया उपाश्रये वासः ॥ ५३ ॥ तथा - अवग्रहशुद्धिरिति ॥ ५४ ॥ (३२३ ) अवग्रहाणां - देवेन्द्र १ राज २ गृहपति ३ शय्यावर ४ साधर्मिका ५ भाव्यभूभागलक्षणानां शुद्धि:-तदनुज्ञया परिभोगलक्षणा कार्या ॥ ५४ ॥ मासादिकल्प इति ॥ ५५ ॥ (३२४ ) मासः - प्रतीतरूप एव, आदिशब्दाच्चतुर्मासी गृह्यते, ततो मासकल्पचतुर्मासीकल्पश्च कार्यः ॥ ५५ ॥ यदा तु दुर्भिक्षक्षितिपतिविग्रहजङ्घा बलक्षयादिभिर्निमित्तैः क्षेत्रविभागेन मासादिकल्पः न पार्यते तदा किं कर्त्तव्यमित्याहएकत्रैव तत्क्रियेति ॥ ५६ ॥ (३२५ ) एकस्मिन्नेव-मासकल्पादि योग्यक्षेत्रे वसत्यन्तरविभागेन वीथ्यन्तरविभागेन च सर्वथा निरवकाशतायां संस्तारकभूमिपरिवर्तन 'तत्क्रिया' मासादिकल्पक्रियेति, अत एव पठ्यते--" संथारपरावत्तं अभिग्गदं चैव चित्तरूवं तु । एत्तो चरित्तिणो इह विहारपडिमाइसु करेंति ।।१८४ ॥ [ संस्तारकपरावर्त्तमभिग्रहं चैव चित्ररूपं तु । अतश्चारित्रिण इह विहारप्रतिमादिषु यतन्ते ॥ १ ॥ ] तत्र च - सर्वत्राममत्वमिति ॥ ५७ ॥ (३२६) 'सर्वत्र ' पोटफलकादौ नित्यवासोपयोगिनि अन्यस्मिंश्चापमत्वम्-अममीकार इति ॥ ५७ ॥ -400-46914) 0149) या ॥६९॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy