________________
तथा-निदानपरिहार इति ॥५८॥ (३२७) नितरां दीयते-लूयते सम्यग्दर्शनप्रपञ्चबहुलमुलजालो ज्ञानादिविषयविशुद्धविनयविधिसमुद्धरस्कन्धो विहितावदातदानादिभेदशाखोपशाखाखचितो निरतिशयसुरनरभवप्रभवसुखसंपत्तिप्रसूनाकीर्णोऽनभ्यर्णीकृतनिखिलव्यसनव्याकुलशिवालयशमफलोल्वणो धर्मकल्पतरुरनेन सुरद्धाद्याशंसनपरिणामपरशुनेति निदानं तस्य परिहारः, अत्यन्तदारुणपरिणामत्त्वात्तस्य, यथोक्तम्-" यः पालयित्वा चरणं विशुद्धं, करोति भोगादिनिदानमज्ञः । ही वर्द्धयित्वा फलदानदक्ष, स नन्दनं भस्मयते वराकः ॥ १८५॥"॥५८ ॥ तर्हि किं कर्त्तव्यमित्याह
विहितमिति प्रवृत्तिरिति ॥ ५९॥ (३२८) विहितं-कर्त्तव्यतया भगवता निरूपितमेतदिति एवं सर्वत्र धर्मकार्ये प्रवृत्तिः ॥१९॥
तथा-विधिना स्वाध्याययोग इति ॥६०॥ (३२९) 'विधिना' कालविनयाद्याराधनरूपेण स्वाध्यायस्य-वाचनादेर्योगो-व्यापारणमिति ॥६०॥
तथा आवश्यकापरिहाणिरिति ॥ ६१॥ (३३०) आवश्यकानां-स्वकाले नियमात्कर्तव्यविशेषाणां प्रत्युपेक्षणादीनां अपरिहाणिः--अभ्रंशा, इदं च प्रधानं साधुलिङ्ग, तथा च दशवैकालिकनियुक्ति:-"संवेगो निवेओ विसय विवेगो मुसीलसंसग्गी। आराहणा तवो नाणदंसणचरित्तविणो य ॥१८६ ॥ खंती य मद्दवऽजव विमुत्तयाऽदीया तितिक्खा य । आवस्सगपरिसुद्धी य भिक्खुलिंगाई एयाइं ॥१८७॥"
दशवैकालिकानलकाले नियमात्कर्तव्यविशेषाणारहाणिरिति ॥ ६१ ॥ (३३Sणामिति ॥६०॥