SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ वर्मबिन्दु अ.१|| सामा राहिधर्म: ॥रशा मर्थ संचिनोति न तु कचिदपि व्ययते स कदर्यः, तादात्विकमूलहरयोरायत्यां नास्ति कल्याणं, किंत्वर्थभ्रंशेन धर्मकामयोविनाश एव, कदर्यस्य त्वर्थसंग्रहो राजदायादतस्कराणामन्यतमस्य निधिः, न तु धर्मकामयोहतुः, अत एतत्पुरुषत्रयप्रकृतिपरिहारेण मतिमता अर्थोऽनुशोलनीयः, तथा-नाजितेन्द्रियस्य कापि कार्यसिद्धिरस्ति, न कामासक्तस्य समस्ति चिकित्सितं, न तस्य धनं धर्मः शरीरं वा यस्य स्त्रीष्वत्यन्तासक्तिः, विरुद्ध कामवृत्तिनं स चिरं नन्दति, अतो धर्मार्थावाधनेन कामे प्रवर्तितव्यमिति पर्यालोच्य परस्पराविरोधेन धर्मार्थकामासेवनमुपदिष्ट मति ॥५०॥ तथा अन्यतरबाधासंभवे मूलाबाधेति ॥५१॥. अमोषां धर्मार्थकामानां मध्ये अन्यतरस्य-उत्तरोत्तरलक्षणस्य पुरुषार्थस्य बाधासंभ कुतोऽति विषमप्रघ- | दृकवाद्विरोधे संपद्यमाने सति, किं कर्तव्यमित्याह-'मूलायाधा' यो यस्य पुरुषार्थस्य "धर्मार्थकामाः त्रिवर्गः" इति क्रममपेक्ष्य मूल-आदिमस्तस्य अबाधा-अपीडनं, तत्र कामलक्षणपुरुषार्थवाधायां धर्मार्थयोर्वाधा रक्षणीया, तयोः सतोः कामस्य सुकरोत्पादत्वात् , कामार्थयोस्तु बाधायां धर्म एव रक्षणीयः, धर्ममूलत्यादर्थकामयोः, अत एवोक्तम्-"धर्मश्चेन्नावसोदेत, कपालेनापि जोवतः । आढ्योऽस्मीत्यवगन्तव्यं, धर्मवित्ता हि साधवः ॥ ३९ ॥" ५१ ॥ इति । तथा-बलाबलापेक्षणमिति २८ ॥५२॥ इह बुद्धिमता मनुजेन सर्वेष्वपि कार्येषु प्रवृत्तिमादधता सता बलस्य-द्रव्यक्षेत्रकालभावकृतस्य आत्मसामर्थ्यस्य अबलस्य च-तद्विलक्षणस्य अपेक्षणं-आलोचनं अङ्गीकर्तव्यं, अयथावलमारम्भस्य क्षयसंपदेकनिमित्तत्वाद्, अत एव पठ्यते च-"क: |॥१॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy