________________
भवपरिणामेन कार्यस्यारम्भोऽभिनिवेशः, नीचलक्षणं चेदं यत्नोतिमतीतस्यापि कार्यस्य चिकीर्षणं, पठन्ति च-"दर्पः श्रमयति नीचानिष्फलनयविगुणदुष्करारम्भैः । स्रोतोविलोमतरणैर्व्यसनिभिरायास्यते मत्स्यैः॥४३॥"५६॥
तथा-गुणपक्षपातितेति ३२॥५७॥ गुणेषु-दाक्षिण्यसौजन्यौदार्यस्थैर्यपियपूर्वाभाषणादिषु स्वपरयोरुपकारकारणेष्वात्मधर्मेषु पक्षपातिता-बहुमानतत्पशंसासाहाय्यकरणादिनाऽनुकूला प्रवृत्तिः, गुणपक्षपातिनो हि जीवा बहुमानद्वारोपजातावन्ध्यपुण्य प्रबन्धसामर्थ्या नियमादिहामुत्र च शरच्छशधरकरनिकरगौरं गुणग्राममवश्यमवाप्नुवन्ति, तद्बहुमानाशयस्य चिन्तारत्नादप्यधिकशक्तियुक्तत्वात् ॥५७॥
तथा-ऊहापोहादियोग इतीति ३३ ॥५८॥ जहचापोहच आदिशब्दात्तत्त्वाभिनिवेशलक्षणो बुद्धिगुणः शुश्रूषाश्रवणग्रहणधारणाविज्ञानानि च गृह्यन्ते इत्यष्टौ बुद्धिगुणा:, तत ऊहापोहादिभिर्योगः-समागमोऽनुष्ठेय इति, तत्र प्रथमतस्तावच्छ्रोतुमिच्छा शुश्रूषा, श्रवणमाकर्णनं, ग्रहण-शास्त्रार्थोपादान, धारणा-अविस्मरणं, मोहसंदेह विपर्यासव्युदासेन ज्ञानं विज्ञान, विज्ञातमर्थपालम्ब्यान्येषु व्याप्त्या तथाविधेषु वितर्कणमूहः, उक्तियुक्तिभ्यां विरुद्धादर्थादिसादिकात्मत्यपायसंभावनया व्यावर्तनमपोहः, अथवा-सामान्यज्ञानमूहः विशेषज्ञानमपोहा, विज्ञानोहापोहविशुद्धमिदमित्यमेवेति निश्चयः तचाभिनिवेशः, एवं हिशुश्रूषादिभिर्बुद्धिगुणैरुपतिप्रज्ञाप्रकर्षः पुमान्न कदाचिदकल्याणमामोति, यदुच्यते-"जीवन्ति शतशः पाज्ञाः, प्रज्ञया वित्तसंक्षये । न हि प्रज्ञाक्षये कश्चिद्वित्ते सत्यपि जीवति ॥४४" इति ॥ इतिशब्दः प्रस्तुतस्य सामान्यतो गृहस्थधर्मस्य परिसमाप्त्यर्थ इति ॥५८॥ इत्यं सामान्यतो गृहस्थधर्म