________________
(69) 130** (69) 696004
तथा - वृत्तस्थज्ञानवृद्धसेवेति २६ ॥ ४९ ॥
वृत्तं - असदाचारनिवृत्तिः सदाचारप्रवृत्तिश्र, ज्ञानं पुनः - हेयोपादेयवस्तु विभागनिश्रयः ततः वृत्ते तिष्ठन्तीति वृत्तस्था: ज्ञानेन वृद्धा - महान्तः ज्ञानवृद्धाः वृत्तस्थाथ ते ज्ञानवृद्धाथ वृत्तस्थज्ञानवृद्धाः तेषां सेवा - दरिद्रेश्वरसेवाज्ञातसिद्धाऽऽराधना, सम्यग्ज्ञानक्रियागुणभाजो हि पुरुषाः सम्यक् सेव्यमाना नियमात्सदुपदेशादिफलैः फलन्ति यथोक्तम्- "उपदेशः शुभो नित्यं, दर्शनं धर्मचारिणाम् । स्थाने विनय इत्येतत्साधुसेवाफलं महत् ॥ ३८ ( शास्त्रवार्त्ता. ८ ) ४९ ॥
तथा - परस्परानुपघातेनान्योऽन्यानुबद्ध त्रिवर्गप्रतिपत्तिरिति २७ ॥ ५० ॥
इह धर्मार्थकामार्गः, तत्र यतोऽभ्युदयनिःश्रेयस सिद्धिः स धर्मः, यतः सर्वप्रयोजन सिद्धिः सोऽर्थः यतः आभिमानिकरसानुविद्धा सर्वेन्द्रियप्रीतिः स कामः, ततः परस्परस्य - अन्योऽन्यस्य अनुपघातेन - अपीडनेन, अत एव अन्योऽन्यानुबद्धस्य - परस्परानुबंधप्रधानस्य त्रिवर्गस्य प्रतिपत्तिः- आसेवनं, तत्र धर्मार्थयोरुपघातेन तादाखिकविषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदाम् ?, धर्मातिक्रमाद्धनमुपार्जितं परेऽनुभवन्ति स्वयं तु परं पापस्य भाजनं सिंह इव सिन्धुरवधाद् बीजभोजिनः कुटुम्बिन इव, नास्त्यधार्मिकस्यायत्यां किमपि कल्याणं, स खलु सुखी योऽमुत्रसुखाविरोधेनेहलोकसुखमनुभवति, तस्माद्धर्माबाधनेन कामार्थयोर्मतिमता यतितव्यम्, यस्त्वर्थकामावुपहत्य धर्ममेवोपास्ते तस्य यतित्वमेव श्रेयो न तु गृहवास इति, तस्यार्थकामयोरप्याराधनं श्रेय इति, तथा तादाविकमूलहरकदर्याणां नासुलभः प्रत्यवायः, तत्र यः किमप्यचिन्त्योत्पन्नमर्थमपव्येति स तादाखिकः, यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः, यो भृत्यात्मपीडाभ्या
森本 ** 本品 本章众安中