SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दु धर्मफकम् सप्तमो ऽध्यायः ॥८६॥ फलं प्रधानं यस्येति स तथा 'आरम्भा' धर्मादिगोचरा प्रवृत्तिः इति' अस्याः 'सल्लोकनीतितः' शिष्टजनसमाचाराव , किमित्याह-संक्षेपात्' परिमितरूपयाःउक्तमस्य-धर्मस्येदं-फलं "धनदो धनार्थिनां प्रोक्तः” इति श्लोकेन शास्त्रादौ, 'व्यासतो' विस्तरेण पुनरुच्यते इदमिदानीमिति ॥१॥ ननु यदि व्यासतः पुनारदानीं वक्ष्यते तत्किमिति संक्षेपात् पूर्व फलमुक्तमित्याशङ्क्याह प्रवृत्त्यङ्गमदः श्रेष्ठं, सत्त्वानां प्रायशश्च यत् । आदौ सर्वत्र तद्युक्तमभिधातुमिदं पुनः॥३८॥ 'प्रवृत्त्यङ्ग' प्रवृत्तिकारणं 'अदः' फलं 'श्रेष्ठं' ज्यायः 'सत्त्वानां' फलार्थिनां प्राणिविशेषाणां 'प्रायशः'। प्रायेण, चकारो वक्तव्यान्तरसमुच्चये, 'यद्' यस्माद् आदौ' प्रथमं 'सर्वत्र' सर्वकार्येषु 'तत् ' तस्माद् 'युक्तम्' उचितम् 'अभिधातुं' भणितुं संक्षेपादादाविति-आदावेव, विस्तरेण फलभणने शास्त्रार्थस्य अतिव्यवधानेन श्रोतुस्तत्र नीरसभावप्रसड्रेनानादर एव स्यादिति, 'इदं पुन' रिति यत्पुनासतः फलं तदिदं-वक्ष्यमाणम् ॥२॥ यथा-विशिष्टं देवसौख्यं यच्छिवसौख्यं च यत्परम् । धर्मकल्पद्रमस्येदं, फलमाहुर्मनीषिणः॥३९॥ 'विशिष्टं' सौधर्मादिदेवलोकसंबन्धितया शेषदेवसौख्यातिशायि 'देवसौख्यं मुरशर्म यदिइव वक्ष्यमाणं, 'शिवसौख्यं' मुक्तिशर्म, चः समुच्चये, यदिति प्राग्वत् , 'परं' प्रकृष्ट, तत्किमित्याह-'धर्मकल्पदमस्य' भावधर्मकल्पपादपस्य |' इदं 'प्रतीतरूपतया प्रथमानं 'फलं' साध्यमाहुः-उकयन्तः 'मनीषिणः' मुधर्मस्वामिप्रभृतयो महामुनय इति ॥३॥ इत्युक्तो धर्मः, साम्प्रतमस्य फलमनुवर्णयिष्यामः॥१॥ (४४४) ॥८६॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy