SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ विशिष्टतरं तु सर्वमिति ॥ २३ ॥ (४६६) प्रागुक्तादतिविशिष्टं पुनः सर्व अत्यन्त निरवद्यं जन्म (४५२ ) सुन्दररूपादि ( ४५३ ) ॥२३॥ कुन एतदित्याह क्लिष्टकर्मविगमादिति ॥ २४ ॥ ( ४६७) दौर्गत्यदौर्भाग्यदुष्कुलत्वादिपर्यायवेद्यकर्मविरहात ॥२४॥ अयमपि शुभतरोदयादिति ॥ २५॥ (४६८) शुभतराणाम्-अतिप्रशस्तानां कर्मणां परिपाकात् ॥ २६ ॥ असावपि जीववीर्योल्लासादिति ॥ २६ ॥ (४६९) जीववीर्यस्य-परिशुद्धसामर्थ्यलक्षणस्य उल्लासाद्-उद्रेकात् ॥ २६ ॥ एषोऽपि परिणतिवृद्धेरिति ॥ २७॥ ४७०) परिणते:-तस्य तस्य शुभाध्यवसायस्य वृद्धः-उत्कर्षात् ॥ २७ ॥ इयमपि तत्तथास्वभावत्वादिति ॥२८॥ (४७१) तस्य-जीवस्य तथास्वभावत्वात्-परिणतिवृद्धिस्वरूपत्वात् , परिपक्के हि भव्यत्वे प्रतिक्षणं वर्द्धन्त एव जीवानां शुभतराः परिणतय इति ॥२८॥ किंच-प्रभूतोदाराण्यपि तस्य भोगसाधनानि, अयत्नोपनतत्वात् प्रासङ्गिकत्वादभिङ्गाभावात् कुत्सि
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy