________________
' उपायतः' उपायेन निरवद्यानुष्ठानाभ्यासरूपेण कायानां पृथिव्यादीनां पालनं - रक्षणं प्रवित्रजिषुः प्राणी कार्यत इति ॥ ३६ ॥ तथा - भाववृद्धिकरणमिति ॥ ३७ ॥ (२६३)
भावस्य - प्रव्रज्याभिलाषलक्षणस्य वृद्धि: - उत्कर्षः तस्याः तैस्तैः प्रव्रज्याफ लमरूपणादिलक्षणैर्वचनैः करणं-सम्पादनं तस्य ॥ ३७ ॥
तथा - अनन्तरानुष्ठानोपदेश इति ॥ ३८ ॥ (२६४)
अनन्तरानुष्ठानस्य—प्रव्रज्याग्रहणानन्तरमेव करणीयस्य 'गुर्वन्तेवासितातद्भक्ति बहुमानादेः' अनन्तराध्याये एव वक्ष्यमाणस्योपदेशः तस्य कार्यः ॥ ३८ ॥
तथा - शक्तितस्त्यागतपसी इति ॥ ३९ ॥ (२६५)
शक्तितः- शक्तिमपेक्ष्य त्यागं च - अर्थव्ययलक्षणं देवगुरुसङ्घपूजादौ विषये तपश्च- अनशनादि कारणीयः स इति ॥ ३९ ॥ तथा - क्षेत्रादिशुड वन्दनादिशुद्धया शीलारोपणमिति ॥ ४० ॥ (२६६)
क्षेत्रस्य - भूमिभागलक्षणस्य आदिशब्दाद्दिशश्च शुद्धौ सत्यां 'वन्दनादिशुद्ध द्या' चैत्यवन्दनकायोत्सर्गकारणसाधुनेपथ्यसमर्पणादिसमाचारचारुतारूपया शीलस्य - सामायिकपरिणामरूपस्य 'करेमि भंते! सामायिकं ' इत्यादिदण्डकोच्चारणपूर्वकमारोपण - प्रव्रज्याई न्यसनं गुरुणा कार्यमिति, तत्र क्षेत्रशुद्धिः इक्षुवनादिरूपा, यथोक्तम्- " उच्छुवणे साहिबणे पउमसरे