SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ताविति १-२ इह 'संस्तारोपक्रमण 'मिति संस्तारकशब्दः शय्योपलक्षणं, तत्र शय्या-शयनं सर्वांगीणं वसतिर्वा संस्तारक:| अर्द्धत्तीयहस्तपरिमाणः, ततः संस्तारकस्य प्रस्तावादप्रत्युपेक्षितस्याप्रमाणितस्य चोपक्रमः-उपभोगः अतिचारोऽयं तृतीयः३। अनादरस्मृत्यनुपस्थापने पुनः चतुर्थपञ्चमाव तिचारौ ४-५ सामायिकातिचाराविव भावनीयाविति । इह संस्तारोपक्रमे इयं | वृद्धसमाचारी-कृतपौषधोपवासो नाप्रत्युपेक्षितां शय्यामारोहति, संस्तारकं वा पौधधशालां वा सेवते, दर्भवस्त्रं वा शुद्धवस्त्रं वा भूम्यां संस्तृणाति, कायिकाभूमेश्चागतः पुनरपि संस्तारकं प्रत्युपेक्षतेऽन्यथाऽतिचारः स्यात् , एवं पीठादिष्वपि विभाषेति ॥ ३३ ॥ अथ चतुर्थस्य सचित्तनिक्षेप १ पिधान २ परव्यपदेश-३ मात्सर्य ४ कालातिकमा ५ इति ॥ ३४॥ (१६७) सचित्तनिक्षेपपिधाने च एरव्यपदेशश्च मात्सर्यं च कालातिक्रमश्चेति समासः, तत्र सचित्ते-सचेतने पृथिव्यादौ निक्षेप:साधुदेयभक्तादेः स्थापनं सचित्तनिक्षेपः, तथा सचित्तेनैव बीजपूरादिना पिधान-साधुदेयभक्तादेरेव स्थगनं सचित्तपिधानं, | तथा परस्य-आत्मव्यतिरिक्तस्य व्यपदेशः परव्यपदेश:-परकीयमिदमन्नादिकमित्येवमदित्सावतः साधुसमक्ष भणनं परव्यपदेशः, तथा मत्सरः-असहनं साधुभिर्याचितस्य कोपकरणं तेन रङ्केन याचितेन दत्तमहं तु किं ततोऽपि हीन इत्यादिविकम्पो वा सोऽस्यास्तीति मत्सरी तद्भावो मात्सर्य, तथा कालस्य-साधुचितभिक्षासमयस्यातिक्रम:-अदित्सयाऽनागतभोजनपश्चाद्भोजनद्वारेणोल्लङ्घनं कालातिक्रमोऽतिचार इति । भावना पुनरेवं-यदाऽनाभोगादिनाऽतिक्रमादिना वा एतानाचरति तदाऽतिचारोऽन्यदा तु भङ्ग इति ॥ ३४ ॥ एवमणुव्रतगुणवतशिक्षापदानि तदतिचारांश्चाभिधाय प्रस्तुते योजयन्नाह
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy