SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ अमेषिन्द भाष. माध्या क्लिष्टकर्म जयहेत ॥४ ॥ एतद्रहिताणुव्रतादिपालनं विशेषतो गृहस्थधर्म इति ॥३५॥ (१६८) एतैः-अतिचारै रहितानामणुव्रतादीनामुपलक्षणखात् सम्यक्त्वस्य च पालनं, किमित्याह-विशेषतो गृहस्थधर्मों भवति यः शास्त्रादौ प्राक् सूचित आसीदिति ॥ ३५॥ आह-उक्तविधिना प्रतिपन्नेषु सम्यक्त्वाणुव्रतादिष्वतिचाराणामसंभव एव, तत्कथमुक्तमेतद्रहिताणुव्रतादिपालनमित्याशङ्कयाह क्लिष्टकर्मोदयादतिचारा इति ॥३६॥ (१६९) क्लिष्टस्य-सम्यक्त्वादिप्रतिपत्तिकालोत्पन्नशुद्धिगुणादपि सर्वथाऽव्यवच्छिन्नानुबन्धस्य कर्मणो-मिथ्याखादेरुदयाद्-विपाकात् सकाशादतिचारा:-शङ्कादयो वधबन्धादयश्च संपद्यन्ते, इदमुक्तं भवति-यदा तथाभव्यखपरिशुद्धिवशादत्यन्तमननुबन्धीभूतेषु मिथ्यात्वादिषु सम्यक्त्वादि प्रतिपद्यते तदाऽतिचाराणामसंभव एव, अन्यथा प्रतिपत्तौ तु स्युरप्यतिचारा इति | ॥३६॥ तर्हि कथमेषां निवारणमित्याशक्याह विहितानुष्ठानवीर्यतस्तज्जय इति ॥३७॥ (१७०) विहितानुष्ठान-प्रति पन्नसम्यक्तवादनित्यानुस्मरणादिलक्षणं तदेव वीर्य-जीवसामर्थ्य तस्मात , किमित्याह-'तज्जयः" तेषाम्-अतिचाराणां जय:- अभिभवः संपद्यते, यतो विहितानुष्ठानं सर्वोपराधव्याधिविरेचनौषधं महदिति ॥३७॥ एतद्विषयमेवोपदेशमाह अत एव तस्मिन् यत्न इति॥३८॥ (१७१) ॥४५॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy