SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 'अत एव' विहितानुष्ठानवीर्यस्यातिचारजयहेतुत्वादेव 'तस्मिन् ' विहितानुष्ठाने 'यत्नः' सर्वोपाधिशुद्ध उद्यमः कार्य इति ॥ अन्यत्राप्युक्तम्-"तम्हा निच्चसईए बहुमाणेणं च अहिंगयगुणमि । पडिवक्खदुगुंछाए परिणइआलोयणेणं च ॥ १९१॥ [तस्मात् नित्यस्मृत्या बहुमानेन वाऽधिकृतगुणे। प्रतिपक्षजुगुप्सया परिणत्यालोचनेन च॥१॥] तित्थंकरभत्तीए सुसाहुजणपज्जुवासणार य । उत्तरगुणसद्धाए एत्य सया होइ जइयत्वं ॥११२॥ [ तीर्थकरभक्त्या सुसाधुजनपर्युपासनया च । उतरगुणश्रद्धया अत्र सदा भवति यतितव्यम् ॥२॥] एवमसंतोऽवि इमो जायइ जाओ य ण पडइ कयावि । ता एत्थं बुद्धिमया अपमाओ होह कायदो त्ति (पश्चा ३६-३७-३८) ॥११३ ॥ [एवमसन्नप्ययं जायते जातश्च न पतति कदाचित् । तद् अत्र बुद्धिमता अप्रमादो भवति कर्त्तव्यः॥३॥ ] साम्प्रतं सम्यक्त्वादिगुणेष्वलब्धलाभाय लब्धपरिपालनाय च विशेषतः शिक्षामाह सामान्यचर्याऽस्येति ॥ ३९॥ (१७२) सामान्यानां-प्रतिपन्नसम्यक्त्वादिगुणानां सर्वेषां प्राणिनां साधारणा सा चासौ चर्या-चेष्टा च सामान्यचर्या 'अस्य' प्रतिपन्नविशेषगृहस्थधर्मस्य जन्तोरिति ॥ ३९ ॥ कीदृशीत्याह समानधार्मिकमध्ये वास इति ॥ ४०॥ (१७३) समानाः-तुल्यसमाचारतया सदृशाः उपलक्षणत्वादधिकाश्च ते धार्मिकाश्चेति समासः, तेषां मध्ये वासः-अवस्थान, तत्र चायं गुणः-यदि कश्चित्तथाविघदर्शनमोहोदयाद्धर्माच्च्यवते ततस्तं स्थिरीकरोति, स्वयं वा प्रच्यवमानः तैः स्थिरीक्रियते,
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy