SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रावक आधमध्यिाया३ ॥४६॥ चर्या पठ्यते च-" यद्यपि निर्गतभावस्तथाप्यसौ रक्ष्यते सद्भिरन्यैः (परैः सद्भिः)। वेणुर्विलूनमूलोऽपि वंशगहने महीं नैति ॥११४॥"४०॥ कि सामान्य तथा-वात्सल्यमेतेष्विति ॥४१॥ (१७४) 'वात्सल्यम्' अन्नपानताम्बूलादिमदानग्लानावस्थापतिजागरणादिना सत्करणं 'एतेषु' साधर्मिकेषु कार्य, तस्य प्रवचनसारत्वात् , उच्यते च-" जिनशासनस्य सारो जीवदया निग्रहः कषायाणाम् । साधर्मिकवात्सल्य भक्तिश्च तथा जिनेन्द्राणाम् "॥ ११५॥४१॥ तथा-धर्मचिन्तया स्वपन मिति ॥ ४२॥ (१७५) धर्मचिन्तया-“धन्यास्ते वन्दनीयास्ते, तैस्त्रैलोक्यं पवित्रितम् । यैरेष भुवनक्लेशी, काममल्लो विनिर्जितः॥ ११६॥" | इत्यादिशुभभावनारूपया स्वपन-निद्राङ्गीकारः, शुभभावनासुप्तो हि तावन्तं कालमवस्थितशुभपरिणाम एव लभ्यत इति ॥४२॥ तथा-नमस्कारेणावबोध इति ॥४३॥ (१७६) 'नमस्कारेण सकलकल्याणपुरपरमश्रेष्टिभिः परमेष्टिभिरधिष्ठितेन 'नमो अरिहंताण' मित्यादिप्रतीतरूपेण अवबोधो-निद्रापरिहारः, परमेष्ठिनमस्कारस्य महागुणत्वात् , पठ्यते च-"एष पञ्च नमस्कारः, सर्वपापप्रणाशनः। मङ्गलानां च सर्वे षां, प्रथमं भवति मङ्गलम् ॥ ११७ ॥ तथा-प्रयत्नकृतावश्यकस्य विधिना चैत्यादिवन्दनमिति ॥४४॥ (१७७) ॥४६॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy