SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ प्रयत्नेन-प्रयत्नवता कृतान्यावश्यकानि-मूत्रपुरीपोत्सर्गाङ्गमक्षालनशुद्धवस्त्रग्रहणादीनि येन स तथा तस्य 'विधिना' पुष्पादिपूजासंपादनमुद्रान्यसनादिना प्रसिद्धेन चैत्यवन्दन-प्रसिद्धरूपमेव, आदिशब्दान्मातापित्रादिगुरुवन्दनं च, यथोक्तम्"चैत्यवन्दनतः सम्यक् , शुभो भावः प्रजायते । तस्मात् कर्मक्षयः सर्वर, ततः कल्याणमश्नुते ॥ ११८" (ललि.) इत्यादीनि ॥४४॥ तथा-सम्यक्प्रत्याख्यानक्रियेति ॥ ४५ ॥ (१७८) ___'सम्यगि ति क्रियाविशेषणं, ततः सम्यग्-यया भवति तथा मानक्रोधानाभोगादिदोषपरिहारवशात् प्रत्याख्यानस्य मूलगुणमोचरस्योत्तरगुणगोचरस्य च क्रिया-ग्रहणरूपा, परिमितसावद्यासेवनेऽपि अपरिमितपरिहारेण प्रत्याख्यानस्य महागुणत्वात् , ययोक्तम्-"परिमितमुपभुआनो ह्यपरिमितमनन्तकं परिहरंश्च । पामोति च परलोके ह्यपरिमितमनन्तकं सौख्यम् ॥ ११९ ॥” इति ४५॥ तथा-यथोचितं चैत्यगृहगमन मिति ॥ ४६ ॥ (१७९) __ 'यथोचितं' यथायोग्यं 'चैत्यगृहगमनं चैत्यगृहे-जिनभवनलक्षणे अर्हद्विम्बवन्दनाय प्रत्याख्यानक्रियानन्तरमेव गमनमिति, इह दिविषः श्रावको भवति-ऋद्धिमांस्तदितरश्च, तत्रदिमान् राजादिरूपः स सर्वस्वपरिवारसमुदायेन व्रजति, एवं हि तेन प्रवचनप्रभावना कृता भवति, तदितरोऽपि स्वकुटुम्बसंयोगेनैति, समुदायकृतानां कर्मणां भवान्तरे समुदायेनैवोपभोगात् ॥ ४६ ॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy