SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ धर्मविन्दु श्राद्धध माध्या ॥४४॥ गुणः स्वयंगमने, ईर्यापथविशुद्धः, परस्य पुनरनिपुणत्वाचदशुद्धिरिति । इह चाद्यद्वयमव्युत्पन्नबुद्धित्वेन सहसाकारादिना वा अन्त्यत्रयं तु व्याजपरस्यातिचारतां यातीति । इहाहुवृद्धाः-दिखतसंक्षेपकरणमणुव्रतादिसंक्षेपकरणस्याप्युपलक्षणं द्रष्टव्यं, तेषामपि संक्षेपस्यावश्यं कर्त्तव्यत्वात् , प्रतिव्रतं च संक्षेपकरणस्य भिन्नव्रतत्वेन द्वादश व्रतानीति संख्याविरोधः स्यादिति, अत्र केचिदाहुः-दिग्बतसंक्षेप एव देशावकाशिक, तदतिचाराणां दिग्व्रतानुसारितयैवोपलम्भाद्, अत्रोच्यते, यथोपलक्षणतया शेषव्रतसंक्षेपकरणमपि देशावकाशिकमुच्यते तयोपलक्षणतयैव तदतिचारा अपि तदनुसारिणो द्रष्टव्याः, अथवा प्राणातिपातादिसंक्षेपकरणेषु बन्धादय एवातिचारा घटन्ते, दिग्व्रतसंक्षेपे तु संक्षिप्तत्वात्क्षेत्रस्य शब्दानुपातादयोऽपि स्युरिति भेदेन दर्शिताः, न च सर्वेषु व्रतभेदेषु विशेषतोऽतिचारा दर्शनीया, रात्रिभोजनादिव्रतभेदेषु तेषामदर्शितत्वादिति ॥ २२॥ अथ तृतीयस्यअप्रत्युपेक्षिताप्रमार्जितोत्सर्गाऽऽ दाननिक्षेपर संस्तारोपक्रमणानादर४स्मृत्यनुपस्थापनानीति॥३३॥(१६६) इह 'पदेऽपि पदसमुदायोपचाराद्' अप्रत्युपेक्षितपदेनाप्रत्युपेक्षितदुष्पत्युपेक्षितः स्थण्डिलादिभूमिदेशः परिगृह्यते, अपमार्जितपदेन तु स एवाप्रमार्जितदुष्पमार्जित इति, तथा उत्सर्गश्चादाननिक्षेपौ चेति उत्सर्गादान निक्षेपाः, ततोऽप्रत्युपेक्षिताप्रमार्जिते स्थण्डिलादावुत्सर्गादाननिक्षेपाः अप्रत्युपेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपाः ततस्ते च संस्तारोपक्रमणं चानादरश्च स्मृत्यनुपस्थापनं चेति समासः, तत्राप्रत्युपेक्षिते-प्रथमत एव लोचनाभ्यामनिरीक्षिते प्रमादाद् भ्रान्तलोचनव्यापारेण वा न सम्यग् निरिक्षिते तथा अप्रमार्जिते-मूलत एव वस्त्राञ्चलादिना अपरामृष्टे दुष्षमार्जिते अर्द्धप्रमाणिते स्थण्डिलादौ यथाईमुत्सर्गो-मूत्रपुरीषादीनामुज्झनीयानामादा ननिक्षेपौ च पौषधोपवासोपयोगिनो धर्मोपकरणस्य पीठफलकादेवितिचारौ स्यातामे ॥४४॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy