SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सर्वविरतिसामायिकेऽपि तथाऽभ्युपगतत्वात् यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चित्तमुक्तं यदाह - " बीओ उ असमिओ मित्ति कीस सहसा अगुत्तो वा ?” [ द्वितीयस्तु (माय० भेदः) असमितोऽस्मीति कथं ? सहसा अगुप्तो वा ] द्वितीयोऽतिचारः समित्यादिभङ्गरूपोऽनुतापेन शृद्धयतीत्यर्थः, इति न प्रतिपत्तेरप्रतिपत्तिर्गरीयसीति, किंच- सातिचारानुष्ठानादप्यभ्यासतः कालेन निरतिचारमनुष्ठानं भवतीति, सूरयो यदाहु:-"अभ्यासोऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः" (घोड०१३-१३) अथ द्वितीयस्यआनयन १ प्रेष्यप्रयोग २ शब्द ३ रूपानुपात ४ पुद्गलप्रक्षेपा ५ इति ॥ २२ ॥ (१६५) आनयनं च प्रेष्यश्च आनयनप्रेष्यौ तयोः प्रयोगावानयनप्रेष्यप्रयोग तथा शब्दरूपयोरनुपातौ शब्दरूपानुपाती आनयनप्रेष्यप्रयोगौ च शब्दरूपानुपातौ च पुद्गलप्रक्षेपश्चेति समासः, तत्रानयने - विवक्षित क्षेत्राद् बहिर्वर्त्तमानस्य सचेतनादिद्रव्यस्य विवक्षित क्षेत्रमापणे प्रयोगः, स्वयं गमने व्रतभङ्गभयादन्यस्य स्वयमेव वा गच्छतः संदेशादिना व्यापारणमानयनप्रयोगः, तथा प्रेष्यस्य- आदेश्यस्य प्रयोगो विवक्षितक्षेत्राद् बहिः प्रयोजनाय स्वयं गमने व्रतभङ्गभयादन्यस्य व्यापारणं प्रेष्यप्रयोगः, तथा शब्दस्य - कासितादिरूपस्य रूपस्य - स्वशरीर ।कारस्य विवक्षित क्षेत्राद्वह्निर्व्यवस्थितस्याह्नानी यस्याहानाय श्रोत्रे दृष्टौ वानुपात:- अवतारणमिति योऽर्थः, अयमत्र भावः- विवक्षित क्षेत्राब हिर्वर्त्तमानं कश्चन नरं व्रतभङ्गभयादाव्हातुमशक्नुवन् यदा काशितादिशब्दश्रावणस्वकीयरूपसंदर्शनद्वारेण तमाकारयति तदा व्रतसापेक्षत्वाच्छन्दानुपातरूपानुपातावतिचाराविति, तथा पुद्गलस्य-शकंरादेर्नियमित क्षेत्राद् बहिर्वर्त्तिनो जनस्य बोधनाय तदभिमुखं प्रक्षेपः पुद्गलप्रक्षेपः, देशावकाशिकवतं हि गृह्यते मा भूद् गमनागमनादिव्यापारजनितः प्राण्युपमर्द इत्यभिप्रायेण, स च स्वयं कृतोऽन्येन वा कारित इति न कश्चित्फले विशेषः, प्रत्युत
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy