________________
एतदपि कुत स्याह
दृष्टवदपायेभ्योऽनिवृत्तेरिति ॥ ३३ ॥ (४००) यथा भावनाज्ञानेन दृष्टेभ्य उपलक्षणत्वाद् ज्ञातेभ्यश्वानर्थेभ्यो निवर्त्तते एवं श्रुतमयप्रज्ञाप्रवृत्तावप्यपायेभ्योऽनिवृत्तेःअनिवर्त्तनात् ॥३३॥ ननु भावनाज्ञानेऽप्यपायेभ्यो निवृत्तिरसंभविनीत्याह
एतन्मूले च हिताहितयोः प्रवृत्तिनिवृत्ती इति ॥ ३४ ॥ (४०१) 'एतन्मूले च' भावनाज्ञानपूर्विके एव, चकारस्यैवार्थत्वात् , हिताहितयोः प्रतीतयोः यथासंख्यं 'प्रवृत्तिनिवृत्ती' विधिप्रतिषेधरूपे भवतः मतिमतां, नान्यज्ञानमूले इति ॥३४॥ इदमेवोपचिन्वन्नाह
अत एव भावनादृष्टज्ञाताद्विर्पययायोग इति ॥ ३५ ॥ (४०२) 'अत एव' भावनामूलत्वादेव हिताहितप्रवृत्तिनिवृत्त्योः ‘भावनादृष्टज्ञाताद्' भावनया दृष्ट ज्ञातं च वस्तु प्राप्य 'विपर्ययायोगः' विपर्यासाप्रवृत्तिलक्षणो जायते, यतोन मतिविपर्यासमन्तरेण पुंसो हितेष्वप्रवृत्तिरहितेषु च प्रवृत्तिः स्यात् , न चासौ भावनाज्ञाने समस्तीति ॥ ३५ ॥ एतदपि कथं सिद्धमित्याहतद्वन्तो हि दृष्टापाययोगेऽप्यदृष्टापायेभ्यो निवर्तमाना श्यन्त एवान्यरक्षादावितीति ॥ ३६॥ (४०३) ।
'तद्वन्तो' भावनाज्ञानवन्तः प्रमातारो 'हिः' यस्मात् 'दृष्टापाययोगेऽपि' प्रत्यक्षोपलभ्यमानमरणाद्यपायप्राप्ती, किं पुनस्तदप्राप्तावित्यपिश्चब्दार्थः, 'अदृष्टापायेभ्यो' नरकादिगतिपापणोयेभ्यो 'निवर्तमानाः' सुवर्णमययवभक्षिक्रौञ्च