SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दु सापेक्षय उचितानुष्ठान ति धर्मा ध्यायः६ ॥८ ॥ जीवाकथकाचर्मशिरोवेष्टनाविष्टसुवर्णकारारब्धमारणमहामुनिमेतार्य इवाद्यापि महासत्वाः केचन दृश्यन्ते 'अन्यरक्षादौ' अन्यस्य-स्वव्यतिरिक्तस्य रक्षायां-मरणादित्राणरूपायां, आदिशब्दादुपकारे च मार्गश्रद्धानाधारोपणरूपे, इतिशब्दो वाक्यपरिसमाप्तौ ॥ ३६॥ निगमयन्नाह इति मुमुक्षोः सर्वत्र भावनायामेव यत्नः श्रेयानिति ॥ ३७॥ (४०४) 'इति' एवमुक्तयुक्तेः 'मुमुक्षोः' यतेः सर्वत्र कृत्ये भावनायामेव-उक्तलक्षणायां 'यत्न' आदरः 'श्रेयान्' प्रश्नस्यः ॥३७॥ कुत इत्याह तद्भावे निसर्गत एव सर्वथा दोषोपरतिसिद्धेरिति ॥ ३८ ॥ (४०५) 'तद्भावे' भावनाभावे 'निसर्गत एव' स्वभावादेव सर्वैः प्रकारैर्दोषाणां-रागादीनां उपरतिसिद्धेः॥३८ ॥ अय भावनाया एवं हेतुमाह वचनोपयोगपूर्वा विहितप्रवृत्तियों निरस्या इति ॥३९॥ (४०६) वचनोपयोगः-शास्त्रे इदमित्यं चेत्थं चोक्तमित्यालोचनारूपः पूर्वो-मूलं यस्याः सा तथा, का इत्याह-विहिते-प्रत्युपेक्षणादौ प्रवृत्तिर्विहितप्रवृत्तिः 'योनिः' उत्पत्तिस्थानं ' अस्याः' भावनाया भावनाज्ञानस्येत्यर्थः ॥३९॥ कुत इत्याह महागुणत्वावचनोपयोगस्येति ॥ ४०॥ (४०७) अत्यन्तोपकारित्वादचनोपयोगस्य-उक्तरूपस्य ॥४०॥ एतदेव भावयन्नाह ||८०॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy