________________
धर्मविन्दुका
प्रकरण
एव तत्कारणपरिहारः कृतो भवति, न पुनरन्यथा, तत्र दृष्टबाधाकारणानि मन्यायव्यवहरणातरमणपरदाराभिगमनादीनि इहलोकेऽपि सकललोकसमुपलभ्यमाननानाविधविडम्बनास्थानानि, अदृष्टवायाकारणानि पुनर्मद्यमांससेवनादीनि शास्त्रनिरूपितनरकादियातनाफलानि भवन्ति, किं भगितं.भाति ?-दृष्टादृष्टबाधाहेतुभ्यो दूरमात्मा व्यावर्तनीय इति ॥१३॥
तथा-शिष्टचरितप्रशंसमिति ४॥१४॥ शिष्यते स्म शिष्टाः-वृत्तस्थज्ञानवृद्धपुरुषविशेषसंनिधानोपलब्धविशुद्धशिक्षा मनुजविशेषाः तेषां चरितं-आचरणं शिष्टचरितं, यथा-"लोकापवादभीरुत्वं, दीनाभ्युद्धरणादरः। कृतज्ञता सुदाक्षिण्यं, सदाचारः प्रकीर्तितः॥९॥ सर्वत्र निन्दासंत्यागो, वर्णवादश्च साधुषु । आपद्यदैन्यमत्यन्तं, तद्वत्संपदि नम्रता ॥ १०॥ प्रस्तावे . मितभाषित्वमविसंवादनं तथा । प्रनिपन्नक्रिया चेति, कुलधर्मानुपालनम् ॥११॥ असद्व्ययपरित्यागः, स्थाने चैव क्रिया सदा । प्रधानकार्ये निर्बन्धः, प्रमादस्य विवर्जनम् ॥ १२॥ लोकाचारानुवृत्तिश्च, सर्वत्रौचित्यपालनम् । प्रवृत्तिहिते नेति, प्राणैः कण्ठगतैरपि ॥ १३ ॥ (योग. १२६-१३० ) इत्यादि, तस्य प्रशंसनं प्रशंसा पुरस्कार इत्यर्थः, यथा च-"गुणेषु यत्नः क्रियतां, किमाटोपैः प्रयोजनम् । विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः॥१४॥" तथा-" शुद्धाः प्रसिद्धिमायान्ति, लघवोऽपीह नेतरे । तमस्यपि विलोक्यन्ते, दन्तिदन्ता न दन्तिनः ॥१५।।" ॥ १४ ॥ इति
. तथा-अरिषड्वर्गत्यागेनाविरुद्धार्थप्रतिपत्त्येन्द्रियजय इति५ ॥१५॥ अयुक्तितः प्रयुक्ताः कामक्रोधलोभमानमदहर्षाः शिष्टगृहस्थानामन्तरङ्गोऽरिषड्वर्गः, तत्र-परपरिगृहीतास्वनूढासु
॥६॥