SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ दनपरिपालनारूपचतुरो वर्णान् कुलीनान् करोति, युक्तितो वरणविधानम्, अग्निदेवादिसाक्षिकं च पाणिग्रहणं विवाहः, स च ब्राह्मादिभेदादष्टधा, तथाहि -१ ब्राह्मो विवाहो यत्र वरायालङ्कृता कन्या प्रदीयते ' त्वं भवास्य महाभागस्य सधर्मचारिणीति २ विनियोगेन विभवस्य कन्याप्रदानात्प्राजापत्यः ३ गोमिथुनपुरस्सरं कन्याप्रदानादाषः ४ स देवो विवाहो यत्र यज्ञार्थमृत्विजः कन्याप्रदानमेव दक्षिणा, एते धर्म्या विवाहाश्चत्वारोऽपि, गृहस्थोचित देवपूजनादिव्यवहाराणामेतदन्तरङ्गकारत्वान्मातुः पितुर्वन्धूनां चाप्रामाण्यात् ५ परस्परानुरागेण मिथः समवायाद्गान्धर्वः ६ पणबन्धेन कन्याप्रदानमासुरः ७ प्रसह्य |कन्यादानाद्राक्षसः ८ सुप्तप्रमत्तकन्यादानात्यैशाचः, एते चत्वारोऽधर्म्या अपि नाधर्म्याः यद्यस्ति वधूवरयोरनपवादं परस्पररुचितत्वमिति, शुद्धकलत्रलाभफलो विवाहः, तत्फलं च सुजात सुतसंततिः अनुपहता चित्तनिर्वृतिः गृहकृत्य सुविहितस्त्वं आभिजात्याचारविशुद्धत्वं देवा तिथिबान्धवसत्कारानवद्यत्वं चेति ॥ कुलवधूरक्षणोपायाश्चैते-गृहकर्मविनियोगः परिमितोऽर्थसंयोगः अस्वातन्त्र्यं सदा च मातृतुल्य स्त्रीलोकावरोधनमिति । रजकशिला कुर्कुरकर्परसमा हि वेश्याः कस्तासु कुलीनो रज्येत?, यतो दाने दौर्भाग्यं, सत्कृतौ परोपभोग्यत्वं, आसक्तौ परिभवो मरणं वा, महोपकारेऽप्यनात्मीयत्वं, बहुकालसंबंधेऽपि त्यक्तानां तदैव पुरुषान्तरगमनमिति वेश्यानां कुलाऽऽगतो धर्म इति ॥ १२ ॥ अथ गृहस्थधर्मे वर्त्तनप्रकारमाह तथा - दृष्टादृष्टबाधा भीतता इति ३ ॥ १३ ॥ दृष्टाश्च - प्रत्यक्षत एव अवलोकिताः अदृष्टाश्च-अनुमानागमगम्याः ताथ ता बाधाश्र - उपद्रवाः दृष्टादृष्टबाधास्ताभ्यो भीतता - भयं सामान्यतो गृहस्थधर्म इति, तदा च तदुभयं चेतसि व्यवस्थापितं भवति यदि यथाशक्ति दूरत 469) ****%*46) *** 169) *0-4600
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy