________________
IER
चर्मबिन्दु ॥५॥
समानं-तुल्यं कुलं-पितृपितामहादिपूर्वपुरुषवंशः शीलं-मद्यमांसनिशाभोजनादिपरिहाररूपो व्यवहार आदिशब्दाद्विभववेषभाषादि च येषां ते तथा तैः कुटुम्बिभिः 'अगोत्रजः' गोत्रं नाम तथाविधैकपुरुषप्रभवो वंशःततो गोत्रे जाताः गोत्रजाः तत्पतिषेधात् अगोत्रजाः तैः-अतिचिरकालव्यवधानवशेन त्रुटितगोत्रसंबंधैश्चेति, किमित्याह-'वैवाचं' विवाह एवं तत्कर्म वा वैवाह्य, सामान्यतो गृहस्थधर्म इति प्रकृतं, किमविशेषेण?, नेत्याह-'अन्यत्र विना 'बहुविरुद्धेभ्या' कुतोऽपि महतोऽनौचित्यात् , बहुभिः तज्जातिवर्तिभिस्तत्स्थानतद्देशवासिभिर्वा जनैः सह विरुद्धां घटनां गता बहुविरुद्धाः तेभ्यः, बहुविरुद्धान् लोकान् वर्जयित्वेत्यर्थः । असमानकुलशीलादित्वे हि परस्परं वैसादृश्यात् तथाविधनिर्बणसंबन्धाभावेन असंतोषादिसंभवः, किंच-विभववैषम्ये सति कन्या महतः स्वपितुरैश्वर्यादल्पविभवं भर्तारमवगणयति, इतरोऽपि प्रचुरस्वपितृविभववशोत्पन्नाहकारः तत्पितुर्विभवविकलत्वेन दुर्बलपृष्ठोपष्टम्भां कन्यामवजानाति, तथा गोत्रजैः वैवाह्ये स्वगोत्राचरित. ज्येष्ठकनिष्ठताव्यवहारविलोप: स्यात् , तथाहि-ज्येष्ठोऽपि वयोविभवादिभिः कन्यापिता कनिष्ठस्यापि जामातृकपितुः नीचैत्तिर्भवति, न च गोत्रजानां रूढं ज्येष्ठकनिष्ठव्यवहारं अतिलध्य अन्यो दैवाह्यव्यवहारो गुणं लभते, अपि तु तद्व्यवहारस्य प्रवृत्तौ गोत्रजेषु पूर्वप्रवृत्तविनयभङ्गात् महान् अनर्थ एव संपद्यते, तथा बहुविरुद्धैः सह संबन्धघटनायां स्वयमनपराद्धानामपि तत्संबन्धद्वारा आयातस्य महतो विरोधस्य भाजनभवनेन इहलोकपरलोकार्थयो क्षतिः प्रसजति, जनानुरागप्रभवत्वात्संपत्तीनामिति पर्यालोच्य उक्तं-" समानकुलशीलादिभिः अगोत्रजैः वैवाह्यमन्यत्र बहुविरुद्धेभ्यः ” इति ।
अत्र च लौकिकनीतिशास्त्रमिदम्-द्वादशवर्षा स्त्री षोडशवर्षः पुमान् , तौ विवाहयोग्यौ, विवाहपूर्वो व्यवहारः कुटुम्बोत्पा