________________
नाऽपद्रावणानां च परिहार इति ॥१०॥
तथा-विधेर्याशुद्धिः॥११॥ (२८०) त्रिधा-ऊर्ध्वाधस्तिर्यन्दिगपेक्षया ईर्यायाः-चक्रमणस्य शुद्धिः-युगमात्रादिदृष्टिनिवेशरूपा ॥ ११॥
तथा-भिक्षाभोजनमिति ॥ १२॥ (२८१) । इह त्रिधा भिक्षा-सर्वसंपत्करी पौरुषघ्नी वृत्तिभिक्षा चेति, तल्लक्षणं चेदम्-" यतिर्ध्यानादियुक्तो यो, गुर्वाज्ञायां व्यवस्थितः । सदाऽनारम्भिणस्तस्य, सर्वसंपत्करी मता ॥१५६ ॥ वृद्धाद्यर्थमसङ्गस्य, भ्रमरोपमयाऽटतः । गृहिदेहोपकाराय, विहितेति शुभाशयात् ॥ १५७ ॥ प्रव्रज्यां प्रतिपन्नो यस्तविरोधेन वर्त्तते । असदारम्भिणस्तस्य, पौरुषत्री प्रकीर्तिता ॥ १५८॥ निःस्वान्धपङ्गवो ये तु, न शक्ता वै क्रियान्तरे । भिक्षामटन्ति तृत्त्यर्थ, वृत्तिभिक्षेयमुच्यते ॥१५९॥ इति (इ. अष्टके) ततो भिक्षया-प्रस्तावात्सर्वसंपत्करीलक्षणया पिण्डमुत्पाद्य भोजनं विधेयमिति ॥ १२ ॥
तथा-आघाताद्यदृष्टिरिति ॥ १३ ॥ (२८२) आघात्यन्ते-हिंस्यन्ते जीवा अस्मिन्निति आघातः-शूनादिस्थानं, आदिशब्दात् द्यूतखलाद्यशेषप्रमादस्थानग्रहः, ततः आघातादेरदृष्टिः-अनवलोकन कार्य, तदवलोकने हि अनादिभवाभ्यस्ततया प्रमादानां तत्कौतुकात् कोपादिदोषप्रसङ्गात् इति ॥
तथा-तत्कथाऽश्रवणमिति ॥१४॥ (२८३) तेषां-आघातादीनां कथायाः परैरपि कथ्यमानायाः अश्रवणम्-अनाकर्णनं, तच्छवणेऽपि दोषः प्राग्वत् ॥१४॥