SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ धर्मविन्दु सापेक्षय सापेक्षय तेश्रेष्ठता निरपेक्षयतिगु वि धर्मा ध्याय,६/ गाः ॥७६॥ तस्यैव च गुरुत्वादिति ॥६॥ (३७३) तस्य-परार्थसंपादनस्य एव चेत्यवधारणे गुरुत्वात्-सर्वधर्मानुष्ठानेभ्य उत्तमत्वात् ॥६॥ एतदपि कयमित्याह सर्वथा दुःखमोक्षणादिति ॥७॥ (३७४) 'सर्वथा' सर्वैः प्रकारैः स्वस्य परेषां चेत्यर्थः 'दुःखानां' शारीरमानसरूपाणां मोचनात् ॥७॥ तथा-संतानप्रवृत्तेः॥८॥ (३७५) परार्थसंपादनात् संतानस्य-शिष्यपशिष्यादिप्रवाहरूपस्य प्रवृत्तेः ॥८॥ तथा-योगत्रयस्याप्युदग्रफलभावादिति ॥९॥( ३७६ ) 'योगत्रस्यापि' मनोवाक्कायकरणव्यापाररूपस्य परार्थसंपादने क्रियमाणे, न पुनरेकस्यैवेत्यपिशब्दार्थः, 'उदग्रफलभावात उदग्रस्य-प्रकारान्तरेणानुपलभ्यमानत्वेनात्युत्तमस्य फलस्य-कर्मनिर्जरालक्षणस्य भावात , नहि यथा देशनायां सर्वात्मना च्याप्रियमाणं मनोवाक्कायत्रयं फलमामोति तथाऽन्यत्र कृत्यान्तर इति ॥९॥ तथा-निरपेक्षधर्मोचितस्थापि तत्प्रतिपत्तिकाले परपरार्थसिडौ तदन्यसंपादकाभावे प्रतिपत्तिप्रतिषेधाचेति ॥१०॥ (३७७) निरपेक्षधर्मोचितस्यापि, किं पुनरतदनुचितस्येत्यपिशब्दार्थः, 'तत्पतिपत्तिकाले निरपेक्षधर्मांगीकरणसमये 'परपरार्थसिद्धौ परेषां परार्थस्य-सम्यग्दर्शनादेः प्रधानप्रयोजनस्य सिद्धौ साध्यायां विषये 'तदन्यसंपादकाभावे' तस्मात ॥७॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy