________________
लाया निर्जराया', कुत इत्याह-' उक्तविपर्ययात् ' उदग्रविवेकाभावेन रत्नत्रयाराधनाभावादिति ॥१५॥ एतदेव भावयन्नाह
निर्वाणफलमत्र तत्त्वतोऽनुष्ठानमिति ॥१६॥ (३८३) 'निर्वाणफलं' मुक्तिकार्यम् 'अत्र' जिनवचने 'तत्त्वतः' परमार्थवृत्त्या अनुषङ्गतः स्वर्गादिफलभावेऽपि 'अनुष्ठानं ' सम्यग्दर्शनाचाराधनारूपं प्रोच्यत इति ॥१६॥ यदि नामैवं ततोऽपि किमित्याह
न चासदभिनिवेशवत्तदिति ॥ १७॥ (३८४) 'नच' नैव असुन्दराग्रहयुक्तं तत् ' निर्वाणफलमनुष्ठानं, असदभिनिवेशो हि निष्ठुरेऽपि अनुष्टाने मो| क्षफलं प्रतिबध्नातीति तद्व्यवच्छेदार्थमुक्तं 'न चासदभिनिवेशवत्तदिति ॥१७॥ नन्वनौचित्येऽप्यनुष्ठानं च भविष्यति मिथ्याभिनिवेशरहितं चेत्याशक्याह
अनुचितप्रतिपत्तौ नियमादसदभिनिवेशोऽन्यत्रानाभोगमात्रादिति ॥१८॥ (३८५)
अनुचितस्यानुष्ठानस्य प्रतिपत्तौ-अभ्युपगमे 'नियमाद् ' अवश्यतया 'असदभिनिवेशः' उक्तरूपः, असदभिनिवेशकार्यत्वादनुचितानुष्ठानस्य, अपवादमाह-'अन्यत्र अनाभोगमात्रादिति अन्यत्र-विनाऽनाभोग एव-अपरिज्ञानमेव केवलम्-अभिनिवेशशून्यमनाभोगमात्र तस्मादनाभोगमात्रादनुचितप्रतिपत्तावपि नासदभिनिवेश इति ॥१८॥ एवं सति कि सिद्धमित्याह
संभवति ततोऽपि चारित्रमिति ॥ १९॥ (३८६)