SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ सन्ति रोहन्तोत्याह-विधिना' देशनाईबालादिपुरुषौचित्यलक्षणेन 'उतानि' निक्षिप्तानि 'यये ति दृष्टान्तार्थः 'बीजानि' शालिगोधमादीनि 'सत्क्षितो' अनुपहतभूमौ विधिनोप्तानि सन्ति, पायोग्रहणादकस्मादेव पक्कतथाभव्यत्वे कचिन्मरुदेव्यादौ अन्यथाभावेऽपि न विरोध इति ॥७॥ अमुमेवार्थ व्यतिरेकत आहबीजनाशो यथाऽभूमौ, प्ररोहो वेह निष्फलः । तथा सद्धर्मबोजानामपात्रेषु विदुर्बुधाः॥८॥ 'बीजनाशो' बीजोच्छेदो यथा 'अभूमौ' उपरादिरूपायां'प्ररोहः' अङ्करायुभेदः बीजस्यैव 'वा' इति पक्षान्तरसूचका 'इह' जगति 'निष्फलो' न्यादिनिष्पत्तिलक्षणफलविकलः तथा 'सद्धर्मबीजानां' उक्तलक्षणानां गुरुणा अनाभोगादिभिर्निक्षिप्यमाणानां 'अपात्रेषु' अनीतिकारिषु लोकेषु 'विदुः' जानते बुधाः नाशं निष्फलं वा प्ररोहमिति ॥८॥ किमित्यपात्रेषु धर्मबोजनाशो निष्फलो वा प्ररोहः संपद्यते इत्याहन साधयति यः सम्यगज्ञः स्वल्पं चिकीर्षितम् । अयोग्यत्वात्कथं मूढः, स महत्साधयिष्यति?॥९॥ इति। 'न' नैव 'साधयति' निर्वतयति 'यो' जोवः 'सम्यग्' यथावत् 'अज्ञा' हिताहितविभागाकुशलः 'स्वल्पं" तुच्छं 'चिकीर्षितं ' कर्तुमिष्टं निर्वाहाधनुष्ठानाद्यपि, कस्मान्न साधयतीत्याह-'अयोग्यत्वात्' अज्ञत्वेनानधिकारित्वात् , यथोक्तं-" मूर्खस्य कचिदर्थे नाधिकार" इति, 'कथं ' केन प्रकारेण 'मूढो' वैचित्यमागतः 'स' पूर्वोक्तो जीवः 'महत्' परमपुरुषार्थतया बृहद्-धर्मबीजारोहणादि साधयिष्यति ?, सर्पपमात्रधरणासमर्थस्य मेरुगिरिधरणासमर्थत्वादिति ॥९॥ इति सहर्मदेशनाई उक्तः, इदानीं तद्विधिमनुवर्तयिष्याम इति ॥१॥(५९)
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy