________________
नि
धर्यबिन्द
ब.२ ॥१६॥
_ 'इति एवं पूर्वोक्तगृहस्थधर्मनिरूपणेन 'सडर्मदेशनाहाँ' लोकोत्तरधर्मप्रज्ञापनायोग्यः 'उक्त' भणिवा, 'इदानीं सम्पति 'तविधि' सद्धर्मदेशनाक्रमं 'वर्णयिष्यामः' निरूपयिष्यामो वयमिति ॥ १॥ तद्यथा
तत्प्रकृतिदेवताधिमुक्तिज्ञानमिति ॥२॥ (६०) तरय-सद्धर्मदेशनाईस्य जन्तोः प्रकृति:-रवरूपं गुणवल्लोकसङ्गपियत्वादिका देवताधिमुक्तिश्च-युद्धकपिलादिदेवताविशेषमुक्तिः तयोनि प्रथमतो देशवेन कार्य, ज्ञातप्रकृतिको हि पुमान रक्तो विष्टो मूढः पूर्वव्युद्ग्राहितश्च चेन भवति तदा कुशलैस्तथाऽ नुवयं लोकोत्तरगुणपात्रतामानीयते, विदितदेवताविशेषाधिमुक्तिश्च तत्तद्देवताप्रणीत मार्गानुसारिवचनोपदर्शनेन तपणेन च सुखमेव मार्गेऽवतारयितुं शक्यते इति ॥२॥
तथा-साधारणगुणप्रशंसेति ॥३॥ (६१) साधारणानां-लोकलोकोत्तरयोः सामान्यानां गुणानां प्रशंसा-पुरस्कारः देशनाईरय अग्रतः विधेया, यथा-"प्रदान | प्रच्छन्नं गृहमुपगते संभ्रमविधिः, प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः । अनुत्सेको लक्ष्म्या निरभिभवसाराः परकयाः, श्रते चासंतोषः कथमनभिजाते निवसति ? ॥४८॥ (शिखरिणीवृत्तम् )॥३॥
तथा-सम्यक् तदधिकाख्यानमिति ॥४॥ (६२) सम्यग्-अविपरीतरूपतया तेभ्यः-साधारणगुणेन्यः अधिका-विशेषवन्तः ये गुणाः तेषामाख्यान-कथनम्, यथा"पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् अहिंसा सत्यमरदेयं, त्यागो मैथुनवर्जनम् ॥ ४८ ॥” (अष्टकेषु) ४॥
॥१६॥