SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 040-459) 4000412469) ****#4659100*400-100 तथा - अबोधेऽप्यनिन्देति ॥ ५ ।। (६३) 'अबोधेऽपि ' अनवगमेऽपि सामान्यगुणानां विशेषगुणानां वा व्याख्यातानामप्यनिन्दा - अहो मन्दबुद्धिर्भवान् य इत्थमाचक्षाणेष्वपि अस्मासु न बुध्यते वस्तुतच्वमित्येवं श्रोतुस्तिरस्कारपरिहाररूपा, निन्दितो हि श्रोता किञ्चिद् बुभुत्सुः अपि सन् दूरं विरज्यत इति ॥ ५ ॥ तर्हि किं कर्तव्यमित्याह शुश्रूषाभावकरणमिति ॥ ६ ॥ (६४) धर्मशास्त्रं प्रति श्रोतुमिच्छा शुश्रूषा तल्लक्षणो भावः परिणामः तस्य करणं - निर्वर्तनं श्रोतुस्तैस्तैर्वचनैरिति, शुश्रूषामनुत्पाद्य धर्मकथने प्रत्युत अनर्थं संभवः, पठ्यते च - " स खलु पिशाचकी बातकी वा यः परेऽनर्थिनि वाचमुदीरयते " ॥ ६ ॥ भूयो भूयः पुनः पुनः दृढसंनिपात रोगिणां पुनः पुनः तथा - भूयो भूय उपदेश इति ॥ ७ ॥ (६५) उपदिश्यते इत्युपदेशः- उपदेष्टुमिष्टो वरतृविषयः कथञ्चिदनवगमे सति कार्यः, किं न क्रियन्ते क्रियाः विक्तादिकाथपानोपचारा इति ॥ ७ ॥ तथा - बोधे प्रज्ञोपवर्णनमिति ॥ ८ ॥ (६६) ' बोधे ' सकृदुपदेशेन भूयो भूय उपदेशेन वा उपदिष्टवस्तुनः परिज्ञाने तस्य श्रोतुः 'प्रज्ञोपवर्णनं ' बुद्धिप्रशंसनं, यथा नालघुकर्माणः प्राणिन एवंविधसूक्ष्मार्थबोद्धारो भवन्तीति ॥ ८ ॥ 3- 40*409) 120234691-80954001 2000 19
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy