________________
धर्मविन्द
अ. २ ॥१७॥
तथा - तन्त्रावतार इति ॥ ९ ॥ (६७)
तन्त्रे-आगमे अवतारः-प्रवेशः आगमबहुमानोत्पादनद्वारेण तस्य विधेयः, आगमबहुमानश्चैवमुत्पादनीयः- “ परलोकविधौ शास्त्रात्मायो नान्यदपेक्षते । आसन्नभव्यो मतिमान्, श्रद्धाधनसमन्वितः ॥ ४९ ॥ उपदेशं विनाऽप्यर्थकामौ प्रति पदुर्जनः । धर्मस्तु न विना शास्त्रादिति तत्रादरो हितः ||५०॥ अर्थादावविधानेऽपि तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः, क्रियोदाहरणात्परः ॥५१॥ तस्मात्सदैव धर्मार्थी, शास्त्रयत्नः प्रशस्यते । लोके मोहान्धकारेऽस्मिन्, शास्त्रालोकः प्रवर्तकः ॥५२॥ 'शास्त्रयत्न' इति शास्त्रे यत्नो यस्येति समासः । पापामयौषधं शास्त्रं, शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् ॥ ५३॥ न यस्य भक्तिरेतस्मिंस्तस्य धर्मक्रियाऽपि हि । अन्धमेक्षाक्रियातुल्या, कर्मदोषादसत्फला ॥५४॥ यः श्राद्धो मन्यते मान्यान्, अहङ्कारविवर्जितः । गुणरागी महाभागस्तस्य धर्मक्रिया परा ॥ ५५ ॥ यस्य त्वनादरः शास्त्रे, तस्य श्रद्धादयो गुणाः। उन्मत्तगुणतुल्यत्वान्न प्रशंसास्पदं सताम् ॥ ५६ ॥ मलिनस्य यथाऽत्यन्तं जलं वस्त्रस्य शाधनम् । अन्तःकरणरत्नस्यतथा शास्त्रं विदुर्बुधाः ॥ ५७ ॥ शास्त्रे भक्तिर्जगद्वन्यैर्मुक्तिदूती परोदिता । अत्रैवेयमतो न्याय्या, तत्प्राप्त्यासन्नभावतः ॥ ५८ ॥ (योग. २२१-३०) [ अत्रैव इति मुक्तौ एव । इयमिति शास्त्रभक्तिः । तत्प्राप्त्यासन्नभावत इति - मुक्तिप्राप्तिसमीपभावात् ॥] ९ । तथा - प्रयोग आक्षेपण्या इति ॥ १० ॥ (६८)
प्रयोगो - व्यापारणं धर्मकथाकाले आक्षिप्यन्ते - आकृष्यन्ते मोहात्तवं प्रति भव्यप्राणिनः अनयेत्याक्षेपणी तस्याः कथायाः, सा च आचारव्यवहारप्रज्ञप्तिदृष्टिवादभेदाच्चतुर्धा, तत्राचारो - लोचास्नानादिसाधु क्रियारूपः व्यवहारः - कथञ्चिदाप
विशेषगृहधर्मः
॥१७॥