SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ज्ञानाद्याचारकरचारित्राचारस्तव्यजनार्थतदुभ नदोषव्यपोहाय प्रायश्चित्तलक्षणः प्रज्ञप्तिः-संशयापन्नस्य मधुरवचनैः प्रज्ञापनं दृष्टिवादश्च--श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनमिति ॥१०॥ तथा-ज्ञानाद्याचारकथनमिति ॥११॥ (६९) ज्ञानस्य-श्रुतलक्षणस्य आचारःज्ञानाचारः, आदिशब्दाद्दर्शनाचारश्चारित्राचारस्तपआचारो वीर्याचारश्चेति, ततो ज्ञानाद्याचाराणां कथन-प्रज्ञापनमिति समासः, तत्र ज्ञानाचारोऽष्टधा-कोलविनयबहुँमानोपानानिह्नवव्यजनार्थतदुर्भयभेदलक्षणः, तत्र काल इति यो यस्य अगाविष्टादेः श्रुतस्य काल उक्तः तस्मिन्नेव तस्य स्वाध्यायः कर्तव्यो नान्यदा तीर्थकरवचनात् , दृष्टं च कृध्यादेः कालकरणे फलं विपर्यये तु विपर्यय इति १, तथा श्रुतग्रहणं कुर्वता गुरोविनयः कार्य:, विनयो ह्यभ्युत्थानपादधावनादिः, अविनयगृहीतं हि तदफलं भवति २, तथा श्रुतग्रहणोद्यतेन गुरोर्बहुमानः कार्यः, बहुमानो नामाऽऽन्तरो भावप्रतिबन्धः३, एतस्मिसत्यक्षेपेणाविकलं श्रुतं भवति, अत्र च विनयबहुमानयोश्चतुर्भङ्गी भवति-एकस्य विनयो न बहुमानः १, अपरस्य बहुमानो न विनयः२ अन्यस्य विनयोऽपि बहुमानोऽपि ३, अन्यतरस्य न विनयो नापि बहुमान ४ इति ३, तथा श्रुतग्रहणमभोप्सतो. पधान कार्य, उपदधाति-पुष्णाति श्रुतमित्युपधान-तपा, तद्धि यद्यत्राध्ययने आगाढादियोगलक्षणमुक्तं तत्तत्र कार्य, तत्पूर्वश्रुतग्रहणस्यैव सफलत्वात् ४, 'अनिदव ' इति गृहीतश्रुतेनानियः कार्यः, यद्यत्सकाशेऽधीते तत्र स एव कथनीयो नान्यः, चित्तकालुष्यापत्तेरिति ५, तथा श्रुतग्रहणप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थभेद उभयभेदश्च न कार्यः, तत्र व्यञ्जनभेदो यथा-" धम्मो मंगलमुक्टुिं” इति वक्तव्ये "पुनो कल्लाणमुक्कोसं " इत्याह, अर्थभेदस्तु यया-" आवंती केयावतो लो
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy