________________
'एवम् ' उक्तरूपेण विधिना-सामान्यतो विशेषतश्च गृहस्थधर्मलक्षणेन समायुक्तः-संपन्नः 'सेवमानः' अनुशीलयन् 'गृहाश्रम' गृहवासं, किमित्याह-'चारित्रमोहनीयेन' प्रतीतरूपेण 'मुच्यते' परित्यज्यते 'पापकर्मणा' पापकृत्यात्मकेन ॥१॥ एतदपि कथमित्याह
सदाज्ञाऽऽराधनायोगाद्भावशुद्धेनियोगतः। उपायसंप्रवृत्तेश्च, सम्यक्चारित्ररागतः ॥२०॥
सन्-अकलङ्कितो य आज्ञाराधनयोगो-यतिधर्माभ्यासासहेनादौ श्रावकधर्मः अभ्यसनीय इत्येवलक्षणो जिनोपदेशसंबन्धः तस्माद् यका भावशुद्धिः-मनोनिर्मलता तस्याः 'नियोगतः' अवश्यतया तथा 'उपायसंप्रवृत्तेश्च' उपायेन शुद्धहेत्वङ्गीकरणरूपेण प्रवृत्तेः-चेष्टनात् , चकारो हेत्वन्तरसमुच्चये, इयमपि कुत इत्याह-'सम्यकचारित्ररागतः' निर्व्याजचारित्राभिलाषात् , इदमुक्तं भवति-सदाज्ञाराधनायोगात् यका भावशुद्धिः या च सम्यक्चारित्ररागत: उपायसंपत्तिः अणुव्रतादिपालनरूपा ताभ्यामुभाभ्यामपि हेतुभ्यां चारित्रमोहनीयेन मुच्यते, न पुनरन्यथेति ॥२॥ आह इदमपि कथं सिद्धं यथेत्य चारित्रमोहनीयेन मुच्यते ततः परिपूर्णप्रत्याख्यानभाग्भवतीत्याशङ्कयाहविशुद्धं सदनुष्ठानं, स्तोकमप्यर्हतां मतम् । तत्त्वेन तेन च प्रत्याख्यानं ज्ञात्वा सुबह्वपि ॥२१॥
'विशुद्ध' निरतिचारं अत एव सत्-सुन्दरं अनुष्ठानं स्थूलपाणातिपातविरमणादि 'स्तोकमपि' अन्यतमैकभङ्गकप्रतिपत्त्या अल्पं, बहु तावन्मतमेवेत्यपिशब्दार्थः, 'अहंतां' पारगतानां 'मतम् ' अभीष्टं, कथमित्याह-'तत्त्वेन' तात्त्विकरूपतया, न पुनरतिचारकालुष्यक्षितं बहप्यनुष्ठानं सुन्दरं मतं, 'तेन च ' तेन पुनर्विशुद्धनानुष्ठानेन करणभूतेन स्तोके