SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ यस्मात्कारणादियं कल्पनैव केवला वितथार्थप्रतिभासरूपा, न पुनस्तत्र प्रतिभासमानोऽर्थोऽपीति, कल्पनामात्रमन्यथामुख्यवध्यमानवन्धनयोरभावे वर्त्तते इति ॥ ४७ ॥ बध्यमानबन्धने एव व्याचष्टे बध्यमान आत्मा बन्धनं वस्तुसत् कर्मेति ॥४८॥ (१०६) तत्र 'बध्यमानः' स्वसामर्थ्यतिरोधानेन पारवश्यमानीयमानः, क इत्याह-'आत्मा' चतुर्दशभूतग्रामभेदभिन्नो जीव: प्रतिपाद्यते, तथा-बध्यते मिथ्यात्वादिभिर्हेतुभिरात्मा अनेनेति बन्धनं, किमित्याह-वस्तुसत्' परमार्थती विद्यमान 'कर्म' ज्ञानावरणादि अनन्तानन्तपरमाणुपचयस्वभावमत एव मूर्नप्रकृतीति । अत्रात्मग्रहणेन सांख्यमनिरासमाह, यनस्तत्रोच्यते'आत्मा न बध्यते नापि मुच्यते नापि संसरति कश्चित् . संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः । वस्तुसद्ग्रहणेन तु सौगतमतस्य, यतस्तत्रापि पठ्यते-"चित्तमेव हि संसारो, रागादिक्लेशवासितम् । तदेव तैर्विनिमुक्तं, भवान्त इति कथ्यते ॥९०॥" 'रागादिक्लेशवासित मिति रागादिक्तेशैः सर्वथा चित्तादव्यतिरिक्तैर्वासित-संस्कृतं, एवं हि बध्यमानान्न भिन्न वस्तुपत्कर्मत्यभ्युपगतं भवति । तत्र प्रकृतेरेव बन्धमोक्षाभ्युपगमे आत्मनः संसारापवर्गावस्थयोरभिन्नैकस्वभावत्वेन योगिनां यमनियमाद्यनुष्ठानं मुक्तिफलतयोक्तं यद् योगशास्त्रेषु तद् व्यर्थमेव स्यात् , बौद्धस्यापि चित्तादव्यतिरिक्तकर्मवादिनोऽवस्तुसच्चमेव कर्मणः स्यात् , यतो यद्यतोऽव्यतिरिक्तस्वरूपं तत्तदेव भवति, न च लोके तदेव तेनैव बध्यते इति प्रतीतिरस्ति, वध्यमानबन्धनयोः पुरुषनिगडादिरूपयोः भिन्नस्वभावयोरेव लोके व्यवह्रियमाणत्वात् , किंच-चित्तमात्रत्वे कर्मणोऽभ्युपगम्यमाने संसारापवर्गयोभंदो न पामोति, चित्तमात्रस्योभयत्राप्यविशेषात् ॥ ४८ ॥ बन्धमोक्षहेतूनेवाह
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy