________________
प्रश्नमः-स्वभावत एव क्रोधादिकरकषायविषविकारकटुफलावलोकनेन वा तनिरोधः संवेगो-निर्वाणाभिलाषः निदो-भवादुद्वेजनं अनुकम्पा-दुःखितसत्त्वविषया कृपा आस्तिक्यं-'तदेव सत्यं निःशंकं यजिनैः प्रवेदित मिति प्रतिपत्तिलक्षणं ततः प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यानामभिव्यक्तिः-उन्मोलनं लक्षणं-स्वरूपसत्ताख्यापकं यस्य तत्तथा 'तदिति सम्यग्दर्शनम् ॥ ७॥ एवं सम्यग्दर्शनशुद्धौ यद् गुरुणा विधेयं तदाह
उत्तमधर्मप्रतिपत्त्यसहिष्णोस्तत्कथनपूर्वमुपस्थितस्य विधिनाऽणुव्रतादिदानमिति ॥८॥ (१४१)
इह भव्यस्य भवभीरोधर्मग्रहणोद्यममवलम्बमानस्य गुरुणा प्रथमं क्षमामार्दवादियतिधर्मः सप्रपञ्चमुपवर्ण्य प्रदानुमुपस्था- | पनीयः, तस्यैव सर्वकर्मरोगविरेचकत्वात् , यदा चासावद्यापि विषयसुखपिपासादिभिरुत्तमस्य क्षमामार्दवादेयतिधर्मस्य पतिपत्तिः-अभ्युपगमः तस्यामसहिष्णुः-अक्षमः तदा तस्य 'तत्कथनपूर्व' स्वरूपभेदादिभिस्तेषाम्-अणुव्रतादीनां कथनं-काशनं पूर्व-प्रथमं यत्र तत्तथा, क्रियाविशेषणमेतत्, ‘उपस्थितस्य' गृहीतुमभ्युद्यतस्य, किमित्याह-'विधिना' वक्ष्यमाणेनाणुव्रतादिदानं कर्त्तव्यमिति ॥ ८॥ अन्यथा प्रदाने दोषमाह
सहिष्णोः प्रयोगेऽन्तराय इति ॥९॥ (१४२) 'सहिष्णोः ' उत्तमधर्मप्रतिएत्तिसमर्थस्य 'प्रयोगे' अणुव्रतादिप्रदानव्यापारणे अन्तरायः चारित्रप्रतिपत्तेः कृतो गुरुणा भवति, स च भवान्तरे आत्मनश्चारित्रदुर्लभत्वनिमित्तमिति ॥ ९॥ अत्रैवोपचयमाह
अनुमतिश्चेतरत्रेति ॥ १० ॥ (१४३)