SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दुमा श्रावक व्रताति चारा श्राद्धमध्यिायः३ ॥३७॥ पालनमिति देशस्य भानाद्देशस्यैव च पालनादतिचारव्यपदेशः प्रवर्तते, तदुक्तम्-"न मारयामीति कृतव्रतस्य, विनैव मृत्यु क इहातिचारः? । निगद्यते यः कुपितो वधादीन् , करोत्यसौ स्यानियमानपेक्षः ॥१०४॥ मृत्योरभावान्नियमोऽस्ति तस्य, कोपाहयाहीनतया तु भग्नः । देशस्य भवादनुपालनाच, पूज्या अतोचारमुदाहरन्ति ॥१०॥" यच्चोक्तं 'व्रतेयत्ता विशीर्येत' इति, तदयुक्तं, विशुद्धहिंसादिविरतिसद्भावे हि बंधादीनामभाव एवेति, तदेवं बन्धादयोऽतिचारा एवेति, बन्धादिग्रहणस्य चोपलक्षणत्वान्मन्त्रतन्त्रप्रयोगादयोऽन्येऽप्येवमत्रातिचारतया दृश्या इति ॥ २३ ॥ अथ द्वितीयस्य मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारस्वदारमन्त्रभेदा इति ॥२४॥ (१५७) मिथ्योपदेशश्च रहस्याभ्याख्यानं च कूटलेखक्रिया च न्यासापहारश्च स्वदारमन्त्रभेदश्चेति समासः, तत्र मिथ्योपदेशो नाम अलीकवादविषय उपदेशः-इदमेवं चैवं च ब्रूहीत्यादिकमसत्याभिधानशिक्षणं १ 'रहस्याभ्याख्यानं ' रहः-एकान्तस्तव भवं रहस्य-रहोनिमित्त तच्च तदभ्याख्यानं चेति समासः, एतदुक्तं भवति-रहसि मन्त्रयमाणानवलोक्याभिधत्ते ' एते हि इदं चेदं च राजादिविरुद्धं मन्त्रयन्ते' इति २ कूटलेखस्य-असद्भूतार्थसूचकाक्षरलेखनस्य करणं कूटलेखक्रिया ३ 'न्यासापहार' इति न्यास:-परगृहे रूपकादेनिक्षेपः तस्य अपहार:-अपलापः ४ 'स्वदारमन्त्रभेद' इति स्वदाराणां उपलक्षणार्थत्वान्मित्रादीनां च मन्त्रस्य-गुप्तभाषितस्य भेदो-बहिः प्रकाशनं इति ५ । अत्र च मिथ्योपदेशो यद्यपि मृषा न वादयामीत्यत्र न वदामि न वादयामीत्यत्र वा व्रते भंग एव, न वदामीति व्रतान्तरे तु न किश्चन तथापि सहसात्कारानाभोगाभ्यामतिक्रमव्यतिक्रमातिचारैर्वा मृषावादे परप्रवर्तनं व्रतस्यातिचारोऽयं, अथवा व्रतसंरक्षणबुद्ध्या परवृत्तान्तकयनद्वारेण मृषोपदेशं यच्छतोऽ
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy