________________
| सापेक्षवधः पुनरेवम्-आदित एव भीतपर्षदा श्रावकेण भवितव्यं, यदि पुनर्न करोति कोऽपि विनयं तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृद् द्विर्वा ताडयेदिति २, छविच्छेदोऽपि तथैव, नवरं निरपेक्षो हस्तपादकर्णनासिकादि यन्निर्दयं छिनत्ति, सापेक्षः पुनर्यद् गण्डं वाऽरुर्वा छिन्द्याद्वा दहेद्वेति ३. तथाऽतिभारो नारोपयितव्यः, पूर्वमेव हि या द्विपदादिवाहनेन जीविका | सा श्राद्धन मोक्तव्या, अथान्याऽसौ न भवेत्तदा द्विपदो यं भारं स्वयमुत्क्षिपत्यवतारयति च तं वाह्यते, चतुष्पदस्य तु यथोचितभारादसौ किञ्चिदूनः क्रियते, हलशकटादिषु पुनरुचितवेलायामसौ मुच्यत इति ४, तथा भक्तपानव्यवच्छेदो न कस्यापि कर्तव्यः, तीक्ष्णबुभुक्षो ह्यन्यथा म्रियते, सोऽप्यानदिमेदो बन्धवत् द्रष्टव्यः, नवरं सापेक्षो रोगचिकित्साथै स्यात् , अपराधकारिणि च वाचैव वदेत् यद् अद्य ते न दास्यते भोजनादि, शान्तिनिमित्तं चोपवासं कारयेत् ५। किं बहुना ?, यथा मूलगुणस्य प्राणातिपातविरमणस्यातिचारो न भवति तथा सर्वत्र यतनया यतितव्यमिति ॥ ननु प्राणातिपात एव वतिना | प्रत्याख्यातः, ततो बन्धादिकरणेऽपि न दोषो, विरतेरखण्डितत्वात्, अथ बन्धादयोऽपि प्रत्याख्यातास्तदा तत्करणे व्रतभङ्ग एव, विरतिखण्डनात्, किंच-बन्धादीनां प्रत्याख्येयत्वे विवक्षितव्रतेयत्ता विशीर्यंत, प्रतिव्रतं पश्चानामतिचारव्रतानामाधिक्यादित्येवं न बन्धादीनामतिचारतेति, अत्रोच्यते, सत्यं प्राणातिपात एव प्रत्याख्यातो न बन्धादयः, केवलं तत्पत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता एव द्रष्टव्याः तदुपायवात्तेषां, नच बन्धादिकरणेऽपि व्रतभङ्गः, किं त्वतिचार एव, कथम् ?, इह द्विविध व्रत-अन्तर्वृत्त्या बहिवृत्त्या च, तत्र मारयामीतिविकल्पाभावेन यदा कोपाद्यावेशात्परमाणपहाणमवगणयन् बन्धादौ प्रवर्तते न च प्राणघातो भवति तदा दयावर्जिततया विरत्यनपेक्षप्रवृत्तत्त्वेनान्तवृत्त्या व्रतस्य भङ्गः, प्राणिघाताभावाच बहिर्वत्त्या