SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 众李#众 众诺 तिचारोऽयं व्रतसव्यपेक्षत्वान्मृषावादे परप्रवर्त्तनाच्च, भग्न भग्नरूपत्वाद् व्रतस्येति । ननु रहस्याभ्याख्यानमसद्दोषाभिधानरूपत्वेन प्रत्याख्यातत्वाद्भङ्ग एव, न त्वतिचार इति, सत्यं, किंतु यदा परोपघातकमनाभोगादिनाऽभिधत्ते तदा संक्लेशाभावेन व्रतानपेक्षत्वाभावान्न व्रतस्य भङ्गः परोपघातहेतुत्वाच्च भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः, यदा पुनस्तीत्रसंक्लेशादभ्याख्याति तदा भो व्रतनिरपेक्षत्वात्, आह च - " सहसऽब्भक्खाणाई जाणं तो जइ करेइ तो भंगो। जइ पुणणाभोगाईहिंतो तो होड़ अइयारो ॥ | ॥१०६ ॥ कूटलेखकरणं तु यद्यपि कायेन मृषावादं न करोमीत्यस्य न करोमि न कारयामीत्यस्य वा व्रतस्य भङ्ग एव, व्रतान्तरे रे तु न किञ्चन, तथापि सहसात्कारादिनाऽतिक्रमादिना वाऽतिचारः, अथवा मृषावाद इति मृषाभणनं मया प्रत्याख्यातमिदं तु पुनर्लेखनमिति भावनया मुग्धबुद्धेर्व्रतसव्यपेक्षस्यातिचार इति । न्यासापहारे पुनरदत्तादानं साक्षादेव भवति, मृषावादवतातिचारत्वं चास्य न त्वदीयं मम समीपे किञ्चिदपीत्यनाभोगादिनाऽपढुवानस्य स्यादिति । स्वदारमन्त्रभेदः पुनरनुवादरूपत्वेन सत्यत्वात् यद्यपि नातिचारो घटते तथापि मन्त्रितार्थप्रकाशनजनितलज्जादितः स्वदारादेर्मरणादि संभवेन परमार्थतस्तस्यासत्यत्वात् कथञ्चिद् भङ्गरूपत्वादतिचार एवेति ॥ २४ ॥ अथ तृतीयस्य स्तेनप्रयोग तदाहृतादा न विरूद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहारा इति ॥ २५ ॥ (१५८) स्तेनप्रयोगश्च तदाहृतादानं च विरुद्धराज्यातिक्रमथ हीनाधिकमानोन्मानानि च प्रतिरूपकव्यवहारश्चेति समासः, तत्र स्तेना:- चौरास्तेषां प्रयोगो-व्यापारणं 'हरत यूयं इत्यनुज्ञाप्रदानं १ तथा तैराहृतस्य कुङ्कुमादिद्रव्यस्यादानं - संग्रहः २ विरुद्धः - स्वकीयस्य राज्ञः प्रतिपन्थी तस्य राज्यं - कटकं देशो वा तत्रातिक्रमः - स्वराजभूमिसीमातिलङ्घनेन क्रमणं - प्रवेशः 3989) 4004 (60) 4000469) 10000 18*
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy