SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ बले सर्वत्र प्रवर्त्तनं च शक्त्या । निजलाभचिन्तनं अनुग्रहः सदा मैत्री गुरुवचने ॥ २ ॥ संवरनिश्छिद्रत्वं पद्जीवरक्षणं सुपरिशुद्धम् । विधिस्वाध्यायो मरणाद्यपेक्षणं यतिजनोपदेशः ॥ ३ ॥ ] ॥ ६५ ॥ इत्याशङ्क्याह यतोऽसौ पठ्यते चारित्रिणां तत्साधनानुष्ठानविषयस्तूपदेशः, प्रतिपात्यसौ, कर्मवैचित्र्यादिति ॥ ६६ ॥ (४३३ ) चारित्रिणां परिणतचारित्राणां तस्य चारित्रपरिणामस्य साधनानि यान्यनुष्ठानानि - गुरुकुलवासादीनि तानि विषयो यस्य स तथा, तुः पुनरर्थे, 'उपदेश: ' प्रवर्त्तकवाक्यरूपो यः शास्त्रेषु गीयतेः स ' प्रतिपाती ' प्रतिपतनशीलः चारित्रपरिणामो वर्त्तते, कुत इत्याह- कर्मवैचित्रयात्, विचित्राणि हि कर्माणि ततस्तेभ्यः किं न संभाव्यते ?, यतः कम्माई नूणं घणचिकणाई कढिणाई वज्जसाराई । णाणड्ढयपि पुरिसं पंथाओ उप्पहं नैति ॥ २०९॥ [कर्माणि नूनं घन चिक्कणानि कठिनानि वज्रसाराणि । ज्ञानाढ्यमपि पुरुषं पथ उत्पथं नयन्ति ॥ १ ॥ ] ततः पतितोऽपि कदाचित्कस्यचित् चारित्रपरिणामः तथाविधाकवशात् पुनरपि गुरुकुलवासादिभ्यः सम्यक्प्रयुक्तेभ्यः प्रवर्त्तत इति तत्साधनोपदेशो ज्यायानिति ॥ ६६ ॥ तत्संरक्षणानुष्ठानविषयश्च चक्रादिप्रवृत्त्यवसानभ्रमाधानज्ञातादिति ॥ ६७ ॥ (४३४ ) तस्य चारित्र परिणामस्य लब्धस्य यत् संरक्षणं-पालनं तदर्थं यदनुष्ठानं तद्विषयः, चः समुच्चये, उपदेशः- “ वज्जेजा संगरिंग पासत्थाईहिं पावमित्तेहिं । कुज्जा उ अप्पमत्तो सुद्धचरितेहिं धीरेहिं ॥ २९० ॥" (पञ्चव. ७३० ) [ वर्जयेत् संसर्गी पार्श्वस्थादिभिः पापमित्रैः । कुर्यादप्रमत्त एव शुद्धचारित्रैधरैः ॥ १ ॥ ] इत्यादिरूपो यः स चक्रस्य - कुलालादिसंबन्धिनः आदिशब्दादरघट्टयन्त्रादेश्व या प्रवृत्तिः भ्रमणरूपा तस्या अवसाने - मन्दतारूपे यद् भ्रमाधानं - पुनरपि दण्डयोगेन तीव्रत्वमा * 本* 佘* * 佘*本费、太
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy