SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ मू.४.२१ धर्मविन्दका मागक्रमाधिगतदीक्षः 'समुपासितगुरुकुल' विधिवदाराधितगुरुपरिवारभावः 'अस्खलितशील' प्रवज्याप्रतिपत्तिप्र- वाजका भृत्येवाखण्डितव्रतः 'सम्यगधीतागमः' मूत्रार्थोभयज्ञानक्रियादिगुणभाजो गुरोरासेवनेनाधिगतपारगतगदितागमरहस्य:, Aधिकार माध्यायः३ यतः पठ्यते-"तित्ये सुत्तत्याणं गहणं विहिणा उ तत्थ नित्यमिदं । उभयन्नू चेव गुरू विही उ विणयाइओ चित्तो॥११४॥ ॥५५॥ उभयन्नूविय किरियापरो दढं पवयणाणुरागी य । ससमयपरूवगो परिणो य पन्नो य अच्चत्यं ॥ १४५ ॥” (उपदेशपदे ८५२-८५३) [तीर्थे सूत्रार्थयोर्ग्रहणं विधिनैव तत्र तीर्थमिदम् । उभयज्ञ एव गुरुः विधिस्तु विनयादिकश्चित्रः ॥ १॥ उभयज्ञोऽपि च क्रियापरो दृढं प्रवचनानुरागी च । स्वसमयमरूपकः परिणतश्च प्राज्ञश्चात्यर्थम् ॥२॥] 'तत एव विमलतरबोधात्तत्त्ववेदी' तत एव-सम्यगधीतागमत्वादेव हेतोर्यों विमलतरो बोधः-शेषान् सम्यगधीतागमानपेक्ष्य स्फुटतरप्रज्ञोन्माल: तस्मात्सकाशात् तत्ववेदी-जीवादिवस्तुविज्ञाता 'उपशान्तः' मनोवाकायविकारविकल: 'प्रवचनवत्सलः' यथानुरूपं साधुसाध्वीश्रावकश्राविकारूपचतुर्वर्णश्रमणसङ्घवात्सल्यविधायी 'सत्त्वहितरतः' तत्तच्चित्रोपायोपादानेन सामान्येन सर्वसत्त्वप्रियकरणपरायणः 'आदेयः परेषां ग्राह्यवचनचेष्टः 'अनुवर्तकः' चित्रस्वभावानां प्राणिनां गुणान्तराधानधियाऽनुवृत्तिशीलः 'गम्भीर' रोषतोषाद्यवस्थायामप्यलब्धमध्यः ‘अविषादी' न परीषहाद्यभिभूतः कायसंरक्षणादौ दैन्यमुपयाति 'उपशमलब्ध्यादिसंपन्नः' उपशमलब्धिः-परमुपशमयितुं सामर्थ्यलक्षणा, आदिशब्दादुपकरणलब्धिः स्थिरहस्तलब्धिश्च गृह्यते, ततस्ताभिः संपन्न:-समन्वितः 'प्रवचनार्थवक्ता' यथावस्थितागमार्थप्रज्ञापकः 'स्वगुर्वनुज्ञातगुरुपदः' ॥५ ॥ स्वगुरुणा-स्वगच्छनायकेनानुज्ञातगुरुपदः-समारोपिताचार्यपदवीकः, चकारो विशेषणसमुच्चये, इतिशब्दो गुरुगुणेयत्तासूचकः।
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy