SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ अहः-योग्यः प्रव्रज्याो जीवः, कीदृशः इत्याह 'आर्यदेशोत्पन्नः' मगधाधषड्विंशतिमण्डलमध्यलब्धजन्मा, तया' वशिष्टजातिकुलान्वितः' विशुद्धवैवाह्यचतुर्वर्णान्तर्गतमातृपितृपक्षरूपजातिकुलसंपन्नः तथा 'क्षीणप्रायकर्ममलः' क्षीणप्रायः-उत्सन्नमायः कर्ममलो-ज्ञानावरणमोहनोयादिरूपो यस्य सा तथा, तत एव विमलबुद्धिः, यत एव क्षीणमायकर्ममल: तत एव हेतोविमलबुद्धिः-निर्मलीमसमतिः, 'प्रतिक्षणं मरण 'मिति समयप्रसिद्धावीचिमरणापेक्षयेति, पठ्यते च-"यामेव रात्रिं प्रथमामुपैति, गर्भे वसत्यै नरवीर ! लोकः । ततः प्रभृत्यस्खलितप्रयाणः, स प्रत्यहं मृत्युसमीपमेति ॥ १४३ ॥" नरवीर इति व्यासेन युधिष्ठिरस्य संबोधनमिति, दारुणो विपाको मरणस्यैवेति गम्यते, सर्वाभावकारिखात्तस्येति, 'प्रागपि' इति प्रव्रज्यापत्तिपत्तिपूर्वकाल एवेति, 'स्थिर' इति प्रारब्धकार्यस्यापान्तराल एव न परित्यागकारी, 'समुपसंपन्न' इति समिति-सम्यग्वृत्या सर्वथाऽऽत्मसमर्पणरूपया उपसंपन्नः-सामीप्यमागत इति ॥३॥ इत्थं प्रव्रज्याहमभिधाय प्रव्राजकमाह गुरुपदार्हस्तु इत्थंभूत एव-विधिप्रतिपन्नप्रव्रज्यः १ समुपासितगुरुकुल: २ अस्खलितशीलः ३ सम्यगधीतागमः ४ तत एव विमलतरबोधात्तत्त्ववेदी ५ उपशान्तः ६ प्रवचनवत्सलः ७ सत्त्वहितरता ८ आदेयः९ अनुवर्त्तकः १० गम्भीरः ११ अविषादी १२ उपशमलब्ध्यादिसंपन्न: १३ प्रवचनार्थवक्ता १४ स्वगुर्वनुज्ञातगुरुपद १५ श्चेतीति ॥ ४॥ (२३०) 'गुरुपदाहः' प्रवाचकपदयोग्य: तुः पूर्वस्माद्विशेषणार्थः 'इत्थंभूत एव' प्रव्रज्याईगुणयुक्त एव सन् , न पुनरन्यादृशोऽपि, तस्य स्वयं निर्गुणत्वेन प्रव्राज्यजीवगुणबीजनिक्षेपकरणायोगात् , किमित्याह-'विधिप्रतिपन्नप्रव्रज्यः' वक्ष्य
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy