SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दु सापेक्षयति धर्मः अ. ५ ॥७९॥ पूर्वापररात्रकाले जागरतो भावप्रति लेखनेति ॥ १ ॥ ] ॥ ७१ ॥ एवमात्मन्यनुप्रेक्षिते यत्कृत्यं तदाहउचितप्रतिपत्तिरिति ।। ७२ ।। ( ३४१ ) उचितस्य-गुणबृंहकस्य प्रमादनिग्राहिणश्चानुष्ठानस्य प्रतिपत्तिः - अभ्युपगम इति ॥ ७२ ॥ तथा -- प्रतिपक्षासेवनमिति ॥ ७३ ॥ ( ३४२ ) यो हि यदा येन दोषेण बाध्यमानो भवति तेन तदा तत्प्रतिपक्षभूतस्य गुणस्यासेवनं कार्ये, हिमपातपीडितेने वाग्ने रिति ॥ तथा - आज्ञाऽनुस्मृतिरिति ॥ ७४ ॥ (३४३ ) आज्ञाया-भगवद्वचनस्य पदे पदे हृदयेऽनुस्मृतिः कार्या भगवद्वचनानुस्मरणस्य भगवत्स्मरणरूपत्वेन महागुणत्वात्, यदुक्तम्-“ अस्मिन् हृदयस्थे सति हृदयस्थस्तवतो मुनीन्द्र इति । हृदय स्थिते च तस्मिन् नियमात्सर्वार्थसंसिद्धिः ॥१९१॥” ( षोडश. ) इति ॥ तथा -- समशत्रु मित्रतेति ॥ ७५ ॥ (३४४ ) शत्रौ मित्रे च समानपरिणामता, एको हि तत्र निर्भर्त्सनादिभिरन्यस्तु स्तुतिवन्दनादिभिः स्वचित्तसंतोषं घटयन्तौ मां निमित्तमात्रमवलम्ब्य प्रवृत्तौ द्वावपि न तु मत्कार्य किञ्चनेति, ततः कोऽनयोरूनोऽधिको वा ममेति भावनया ॥ ७८ ॥ तथा - परीषहजय इति ॥ ७६ ॥ (३४५ ) परीषहाणां क्षुत्पिपासादीनां द्वाविंशतेरपि जयः - अभिभवः, तत्र दर्शनपरीषहस्य मार्गाच्यवनार्थं शेषाणां च कर्म 19)--0000-409)- 400040-459) 4000449) साधुक्रि या ॥७१॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy