________________
इत्युचितानुष्ठानमेव सर्वत्र प्रधानमिति ॥५०॥ (४१७) एतत्माग्वत् ॥५०॥ कथमेतदित्याह
प्रायोऽतिचारासंभवादिति ॥५१॥ (४१८) यो हि स्वोचितं कर्म कर्तुमारभते न तस्य तत्रातिचारः संभवति, प्रायोग्रहणेन चेदमाह-तथाविधानाभोगदोषात् निकाचितक्लिष्टकर्मोदयाद्वा कदाचित्कस्यचित्तथाविधसन्मार्गयायिनः पथिकस्येव कण्टकज्वरदिग्मोहसमानोऽतिचारः स्यादपीति॥ ५१॥ एतदपि कथमित्याह
यथाशक्ति प्रवृत्तेरिति ॥५२॥ (४१९) 'यथाशक्ति' यथासामर्थ्य सर्वकार्येषु प्रवृत्तेः ॥५२॥ इयमपि कथम् ?, उच्यते
सद्भावप्रतिबन्धादिति ॥ ५३॥ (४२०) सद्भावे-शक्यतया सत्यरूपे कृत्येऽर्थे चित्तस्य प्रतिबन्धात्-प्रतिबद्धत्वात् ॥५३॥ विपर्यये बाधकमाइ
इतरथाऽऽर्तध्यानोपपत्तिरिति ॥ ५४॥ (४२१) 'इतरथा' अनुचितारम्भे 'आर्तध्यानस्य' प्रतीतरूपस्य 'उपपत्तिः' प्रसङ्गः स्यात् ॥५४॥ कथमित्याह
_ अकालौत्सुक्यस्य तत्त्वतस्तत्त्वादिति ॥ ५५॥(४२२) अकाले-चिकीर्षितकार्याप्रस्तावे यदौत्सुक्यं-तत्कालोचितकार्यांतरपरिहारेण तीव्रचिकीर्षांलक्षणं तस्य 'तत्त्वता'