SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ धर्मविन्दु सापेक्षय ति धर्मा ध्यायः उचिता नुष्ठान ॥८॥ उचितद्रव्यस्तवस्यापि तद्रूपत्वादिति ॥४६॥ (४१३) उचितस्य द्रव्यस्तवस्य "काले सुइभूएणं विसिट्टपुष्फाइएहिं विहिणा उ । सारथुइयोत्तगरुई जिणपूजा होइ कायदा ॥२०२॥" पश्चा. १४७) [काले शुचिभूतेन विशिष्टपुष्पादिकैर्विधिनैव। सारस्तुतिस्तोत्रगुर्वी जिनपूजा भवति कर्त्तव्या ॥१॥] इत्यादिवचनोक्तरूपस्य, किं पुनर्भावस्तवस्येत्यपिशब्दार्थः, सा-उपदेशपालना रूपमस्य तद्भावस्तत्त्वं तस्मात् ॥ कुत इत्याह भावस्तवाङ्गतया विधानादिति ॥४७॥ (४१४) शुद्धयतिधर्मकारणतया विधानाद् द्रव्यस्तवस्य, यदा हि विषयपिपासादिभिः कारणैः साधुधर्ममन्दिरशिखरमारोहुमक्षमो धर्म च चिकीर्षुः प्राणी तदा महत: सावद्यान्तरात् निवृत्तेरुपायमन्यमपश्यन् भगवान् अर्हन् सदारम्भरूपं द्रव्यस्तवमुपदिदेश, यथा-" जिनभवनं जिनबिम्ब जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवमुखफलानि करपल्लवस्थानि ॥ १०३॥ (प्रशम.) एवं च द्रव्यस्तवोऽपि भगवदुपदेशपालनारूप एवेति भावः ॥४७॥ अथ भगवति चित्तावस्थिते फलमाह हृदि स्थिते च भगवति क्लिष्टकर्मविगम इति ॥४८॥ (४१५) प्रतीतार्थमेव, परं क्लिष्टकर्म तदुच्यते यत्संसारवासैकनिबन्धनमिति ॥४८॥ एतदपि कुत इत्याह जलानलवदनयोविरोधादिति ॥ ४९॥ (४१६) वारिवैश्वानरयोरिव 'अनयो' भगवच्चित्वावस्थानक्लिष्टकोणोः 'विरोधात्' परस्पराबाधनात् ॥४९॥ पुनरपि प्रकतोपसंहारमाह |॥८॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy